Loading data... On slow networks this could take a few minutes.
100%
॥ अथ प्रथमाश्वासः ॥
अपि च—
अथवा किमिति स्मरामि दुष्कवीनधुना ।
अस्ति किल समस्तसुरासुरस्तोमवन्दितचरणारविन्दस्य भगवतो महेन्द्रस्य स्थानं, आस्थानममृतान्धसां, आयतनमाश्चर्याणां, आकरो रत्नानां, अवधिर्वैषयिकानन्दस्य, किमपरमगोचरे गिराममरावती नाम नगरी । तत्र च निरालम्बे नभसि वर्तमानतया सर्वपथीनद्वारतया च पुनरनपेक्षितमूलशिलानिवेशनायासं, अनाकाङ्क्षितप्रतीहाररचनाप्रयासं, असंपादितशृङ्गसंबाधं, असंभावितपरिखामण्डलं, आचार इति केवलमभिनिर्वर्तितो नवः प्राकारः । प्रासादः पुनरस्ति वैजयन्त इत्यभूमिरारोहणोपयोगविधुरश्च । सर्वतोऽप्रतिहतचाराणां पौराणाममृतास्वादसुहितानामभ्यवहार्येण किं प्रयोजनम् । अपि च पुनरभिलषितमणिकनकभूषणाम्बरसंदायिषु मन्दारादिशाखिषु न किंचिदस्ति क्रेतव्यं विक्रेतव्यं चेति संज्ञामात्रशरण्याः पण्यवीथिकाः । किंच निरन्तरशिवध्याननिर्धूतकल्मषाः, निरतिशयतपोविशेषशोषिताः, वीतरागभयक्रोधमत्सराः, विषयपराङ्मुखाः, भुवि परमर्षय इति प्रथामागताः पण्डिता एव प्रणयिनो वारमृगीदृशाम् । अश्वमेधयाजिन इति, अग्निचित इति, मासोपवासिन इति, मांसवर्जिन इति, राजसूययाजिन इति, रणदुर्मदा इति, अन्नदा वयमभयदा इति शंसद्भिरपदानानि, संपतद्भिरितस्ततोऽप्यज्ञातमुखैर्जातुचिदवनिवासिभिर्जनैर्बलादपह्रियमाणेषु विमानेषु, आक्रम्यमाणेषु मन्दिरेषु, आकृष्यमाणे च बलादप्सरोगणे, न कश्चिदभिमन्यते ममेदमिति मन्दिराणि विमानानि मणिभूषणानि कळत्राणि वा नगरवासी जनः । किचेदमपरमदेवतया न सुधाशनाः, अलाभादेव न तृणाशनाः, पवनाशना एव परिशेषात् कामदुघा गावः, पराक्रमिणो मतङ्गजाः, वातरंहसश्च वाजिन इति सकलपुरविलक्षणं लक्षणम् । अपि च−
इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपःप्रबन्धनिस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविधृतब्रह्मचर्यजीर्णतया कालमृत्युषु कन्दर्पस्य ब्रह्मर्षिहतकेषु भूतलादागत्य प्रसक्तेषु क्रीडितुमप्सरोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केळीगृहं, विस्रंसय जटामिति वेणीमालम्बमानेषु, अपनय वल्कलमित्यपनेतुकामेषु कुचदुकूलानि, न लोहितं कुर्यादिति निषेधत्सु नखक्षतानि, आः कष्टमसंमतोऽयं पन्थाः शिष्टानामिति पिहितकर्णेषु चुम्बनभेदप्रस्तावनायां, निवीतधारणव्यग्रेषु नीवीमोचनावसरे, मन्त्रजपमुखरेषु मणितावसरे, आः स्मृतमद्य व्यतीपात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरार्तवदिनानि शपथपूर्वकं, अतिक्रामति निषेकलग्नमित्यसहमानेषु बाह्यसुरतव्यापारविलम्बं, अवधीरयत्सु पुरुषायितं, असंमन्यमानेषु बन्धभेदान् , विगायत्सु वीटिकोपसेवनमप्यनुचितोऽयं काल इति, आनन्दमूर्छावसर एव निभृतमनुसंदधानेषु मन्त्रलिङ्गानि, परवशरतान्तनिद्रावसर एव यावत्संनिपातं च सहशय्येति परिहरत्सु पर्यङ्कशायिकां, द्वितीयसुरतारम्भ एव देहि मे कमण्डलुमिति त्वरमाणेषु मन्दाकिनीगमनाय, विहसन्ति विषीदन्ति विलज्जन्ते विस्मयन्ते च रम्भादिमेनकान्ता देववारकान्ताः ॥
किं बहुना—
अस्ति च तामधिवसन्, वसन्त इव ऋतूनां, वासुकिरिव फणाभृतां, चन्दन इव वृक्षाणां, चन्द्रमा इव ऋक्षाणां, राजा सुपर्वणां, राजा त्रिविष्टपस्य, राजा त्रयाणां जगतां, राजा विध्यण्डमण्डलस्य, कर्ता शताश्वमेधानां, संहर्ता वृत्रासुरस्य, रम्भादिविविधरम्भोरुसंसदहंप्रथमिकासंभुज्यमाननवयौवनश्रीः, अपर्युषितयौवनोन्मेषसंभावनीयमदनमदारम्भसीमायाः कौमारहरः सदा शचीदेव्याः, काव्यागमभरतगान्धर्वरहस्यसर्वंकषमनीषाविशेषः, निरवद्यविद्याधरीलोकनखमुखमुखरितविपञ्चिकानिनादप्रपञ्चितोदारनिजभुजापदानसमाकर्णनसमुद्गीर्णपुलकनिर्वर्णनजनितमर्षजल्पाकनिखिलदिक्पालवदनावलोकनसफलीकृतसहस्रलोचनः, चतुर्मुखमुखवलयविहारिभारतीपरिगृहीतवैताळिकाधिकारः, पक्षपातासहिष्णुतयेव परिहृतशैलेन्द्रपक्षमण्डलः, चन्द्रचूडचरणारविन्दपरिचरणानन्दसाम्राज्यधुरंधरः पुरन्दरो नाम ॥
अपि च–
कि बहुना−
स कदाचिदस्वप्नोऽप्याचार इति बोधितः प्रातरमरवैताळिकैः, आलोक्य निर्मलं पौलोमीकपोलदर्पणं, अभ्यर्च्य कामधेनुं, आसाद्य विविधविद्याधरीविलासपिशुनकुसुमशयनीयलोभनीयलतामन्दिरनिरन्तरोपान्तभुवं अधःपरिवर्तमानविकर्तनबिम्बनिरर्गळनिर्गळदूर्ध्वमुखमयूखसंसर्गादुष्णीकृतामन्तरन्तः उपर्युपरि शीतलां भूतलासंस्पर्शेऽपि पुराणपुरुषचरणारविन्दसंबन्धादेव भुवनपावनीममरधुनीं, निर्वर्तितनियमाभिषेचनः सिद्धचारणगन्धर्वसेविते सैकते तस्याः दहराकाशपरिपूजितदिव्यलिङ्गाकृति प्रतिष्ठाप्य चिन्तामणिमयं किमपि पारमेश्वरं लिङ्गं, अनुसंधाय तत्र नखलिखितशरच्चन्द्रचन्द्रिकासारसुन्दरं भगवन्तं मदनान्तकं, अभिषिच्य दिव्यापगासलिलैः, अनुलिप्य रोहिणीरमणहरिणमदपङ्कानुषङ्गिणा हरिचन्दनेन, समभ्यर्च्य गाङ्गेयविकचगाङ्गेयपङ्कजैः, आराध्य सुरभिघृतधारानुबन्धिना दिव्यधूपेन निसर्गचलितरश्मिमालाकलापेन रत्नदीपेन च साङ्गाय सायुधाय सावरणाय साभरणाय च निवेद्य सद्यःसमाहृतनिष्पीडितेन्दुमण्डलनिष्यन्दमानापर्युषितान्यमृतानि, प्रदक्षिणीकृत्य प्रणिपत्य प्रसाद्य पञ्चभिः प्रसूनाञ्जलिभिः, स्तुत्वा श्रुतिशिरोभिः, कृत्वा विसर्जनं, अथ स्मृत्वा चिरन्तनमात्मनि, विलासवीथीविहारकौतूहलेन निर्गत्य बहिः, इतस्ततो निरन्तरालमिलदाशीर्वचोमुखरगीवार्णमुनिसंघसंकुलं, अतिकोमलाङ्गुलिदलाघातशोधितमृदङ्गनादभङ्गिभिः अधरनिवेशितापनीतवेणुभिः असकृदास्फालिताकृष्टवीणागुणाभिः आकुञ्चितऋजूकृतभ्रूलतमाविष्कृतलुप्तसिराबन्धकन्धरमन्तरेव कलमधुरमारब्धगीतिभिः द्विस्त्रिरास्फालितसव्यचरणमृदुरणितमञ्जीरमञ्जुलाभिरप्सरोभिरारप्स्यमानतौर्यत्रिकं, अत्युद्भटवेत्रिवेत्रलताघातविद्रावितवीथीभवदमरमण्डलं, अभितोऽपि दृष्टिगोचरसंनिधापितकरितुरगपर्यङ्किकादिनानाविधवाहनग्राममालोक्य सेनामुखं, आलोकमात्रविदितेङ्गितैराधोरणैरुपस्थापितमर्णवनिमग्नमैनाकपक्षरक्षणाभ्यर्थनायागतं हिमवन्तमिवोन्नतमवदातं च कंचिदारुह्य मतङ्गजं, अङ्गजराज्यसौभाग्यदेवतयेव शरीरिण्या ताम्बूलकरण्डधारिण्या मेनकया, मदनमदकदुष्णसौवर्गकामिनीकटाक्षसंसर्गनिवारणायेव मणिचामरोपवीजनकुशलारम्भया रम्भया च सविलासमध्यासितचरमभागः, पुरोभागचलदलघुजङ्घालकरितुरगसंघजङ्घाजवद्रवदमरभटकोटिसमर्दशिथिलहारमर्दनजनितमुक्तापरागसंबन्धादिव धवलीकृतेन ससंभ्रमवलदम्बरचरनितम्बिनीलोकविकीर्यमाणमन्दारकुसुमवृन्दनिःसरन्मकरन्दधारानिरासायेव मुकुटमुपर्युपरिधार्यमाणेन सर्वतः प्रालम्बमुक्तासरकदम्बशालितया समन्ततो निहितकुपितविधुन्तुदविकटदन्तक्षतविवरक्षरदमृतधारासहस्रमण्डितेन मण्डलेनेव शशाङ्कस्य महतातपत्रेण सफलयन्ननिमेषदृष्टिसृष्टिमम्भोजसंभवस्य, गन्धर्वकुलवाद्यमानबहुविधातोद्यनिनादकबळीकृताशावकाशतयेव संकुलचलितसेनासंघसंकटोन्मुक्तसिंहनादधारापथे निर्जगाम तारापथे ॥
अपि च−
गच्छन्नेव स नभसि, भसितावकुण्ठितसर्वाङ्गसङ्गलब्धपर भागभासुराभिरभिव्याप्य हृदयमधिकतया बहिर्निर्गमिष्यतः कोपानलस्य ज्वालाभिरिव पाटलाभिर्जटाभिरभिभवन्तमिव तटित्वन्तमभिनवं शारदाम्भोदं, अपि च त्रिभुवनमुनिलोकवैलक्षण्यबोधिन्या शापमूलतपोलामसंभवया कीर्त्येव त्रिपुण्ड्ररेखय परिकर्मितललाटमण्डलं, अतिप्रचण्डनिजतपोऽनलज्वालाकलाप परिप्लोषमलिनितैः प्रतिशापाक्षरैरिव पारिकाङ्किणां रुद्राक्षमणिभि रभिवेष्टितं, सोदरशशाङ्कसंदेशहारिकाभिस्तारकभिरिव कर्णपुटाभ्यर्णलग्नाभिः स्फटिकाक्षगुळिकाभिरभिगोभितं, अगृहीतोत्तरासङ्गं अङ्गीकृतकौपीनमात्रपरिधानं, आस्फोटयन्तमनुपदं, अवरुन्धन्त मध्वनि मिलन्ति सिद्धवधूकुलानि, त्रासयन्तमिव कातरान् तर्जयन्तमिव शुनासीरभटानपि, गर्जन्तमिव, गायन्तमिव, नृत्यन्तमिव, स्खलन्तमिव, हसन्तमिव, हृदयारविन्दकुहरविहरदुन्मत्त शेखरभावनानैरन्तर्यादुन्मत्तमिव, स्वयमप्यवाप्रसमस्तकामतय किंचिदप्यनादृतलोकतन्त्रानुविधानं, त्रिलोचनावतारमप्यत्रिलोचनावतारसोदरं, अनसूयागर्भसंभवमप्यत्यन्तकोपनं, अतिकठिनतपोविशेषषरितोषितगौरीप्रसादसमासादितामपि कयापि विद्याधरकन्यया प्रार्थनामात्रादेव शापभीतया प्रणिपत्य समर्पितां कामपि कनकारविन्दमयीमम्लानमालिकामानयन्तं, आपतन्तमग्रत एव निरर्गळमभिमन्त्र्य मुक्तमिव पाशुपतं शरमनतिलङ्घनीयतेजस दुर्वाससं नाम तापसमद्राक्षीत् । जानन्नपि तमनतिक्रमणीयतेजसा त्रिभुवनेति । इतरेषा मुनीनां कोपेन तपःक्षत्र , दुर्वासमस्तु कोपे तपोवृद्धिरिनि प्रसिद्धिः। पारिकांक्षी वाचयमो मुनिरियमर । उत्तराम परिधानम् । उन्मत्तपुष्प शेखरे यम्य उन्मत्तोबरः शिव । त्रिलोचना तारमपि परमशिवस्यावतारभूतमपि । अत्रेः लोचनात् अवतागे यस्य चन्द्र तस्य मोदरम् । अनसूया अत्रिपत्नी दुवासमो माता । दुर्वाससं, जानन्नपि जगदेव निखिलमपलपितुमन्यथयितुं च नैपुण्यं ब्राह्मणस्य, जानन्नपि मुनिकुलन्यक्कारपरिणतां गतिं नहुषस्य, शिष्योऽपि बृहस्पतेः, शीलितमापि धर्मशास्त्रेषु, परिचर्यारतोऽपि निसर्गत एव ब्राह्मणानां, आ चतुराननादा च कीटपतङ्गेभ्यस्तुल्यवदेव प्रभवन्त्या भगवत्या भवितव्यताया विलासेन त्रिभुवनाधि पत्यमदान्धीकृतलोचनो धीमानपि सहस्रलोचनो न तं प्रत्यवरु रोह, न तरामुपचचार गिरा, न तमां च प्रणनाम । अपि च न केवलं तमवजज्ञे, अपि तु पुनरसंभावितेनापि तेन वितीर्यमाणा मादाय सावज्ञमेकेन पाणिना मालिकां, पश्यत एव महर्षेः, अनुपनीय मकुटतटीमनाघ्राय चान्ततः स्कन्ध एव सिन्धुरस्य निवेशयामास । निवेशितमात्रा च सा निसर्गनिरवग्रहेण वेतण्डेन शुण्डयाकृष्य निष्पिपिषे ॥
तदनु यथागतं गते दुर्वाससि, तावता वैभवेन विनिर्गतोऽप्यतर्कितोपनततदीयशापसमुत्सारितोत्साहः, समग्रेण मण्डलेन निर्जिहानो राकाशशाङ्क इव राहुमुखे पतितः, सुरपतिः अभितः प्रसार्यमाणरोषविपादमन्दाक्षशबळकटाक्षसहस्रनियमित व्यापारममुखरमुरजमनाहतपटह अक्कणितवीणादिवादित्रं अव सन्नकिन्नरीगानमप्रवृत्तरम्भादिनृत्तसंरम्भं अवसितवैतालिकलोक कोलाहलं अप्रसक्तवेत्रिहाहारवं अनाशङ्कितभटसिंहनादं अस्तंगतान्योन्यसंकथं असंभावितपीठमर्दकविदूषकालापं,
अश्वहेषितेऽपि सातङ्कसादिकुल, अङ्घ्रिविन्यासशब्देऽपि सापराधसौविदल्लजनं,
अपनीतमातङ्गघण्टावलयं, आबद्धमिव मूकमिव बधिरमिव मुग्धमिव प्रसुप्तमिव विकलमिव शून्यमिव विन्यस्तमिव चित्रफलके, निखिलमपि विबुधबलमाकर्षन्नेव केवलं, आगत्य पुनर्नगरं, आवेद्य वृनमिमं गुरवे वृत्तान्तं, अन्तःपुरं प्रविश्य, दुरन्तचिन्तानुबन्धनियन्त्रितः शयनागार एव जजागार तां रजनीम् ।
अथ तदानीमेव गूढनिहितचारनिवेदिततापसशापवृत्तान्तममाकर्णनलब्धान्तरेण मन्त्रिणा भार्गवेण समादिष्टाः, हृष्टाश्च चिरनिरीक्षितरन्ध्रलाभेन, दर्शयिष्यन्तो दृढपरिचितानि समरकौशलानि, सफलयिष्यन्तः साधिनानि महास्त्राणि, समुल्लिखन्तो वैरनिर्यातनप्रकारान् , अपनेष्यन्तश्चिरनिरूढमपयशोमालिन्यं अभिनन्दन्तो दुर्वाससं, आवेदयन्तः परस्परमभ्यग्रदृष्टानि शुभनिमित्तानि, विवृण्वन्तो वीरवादान् विभजन्तः प्रतिसैन्यानि सैनिकानां, अवरुन्धन्तश्चारजनसंचारं, आसूचयन्तो गन्तव्यपदमाप्तवर्गेषु केवलं, आदिशन्तश्च घण्टापनयनमनेकपानां, अङ्गदासंघट्टनमश्वोरसानां,
अनुच्छ्रयणं ध्वजानां, अवादनं वादित्राणां, अश्वेळनं च योधानां, अभिवन्ध पुरोधसं, अनुमान्य योधमुख्यान् , आमन्त्र्य गुरुजनं, अनुज्ञाप्य मौहूर्तिकान् , भावयन्तः प्राचीनान् महासुरान् , पठन्तश्च तेषामेव वेदापहरणवसुधानिमज्जनादीनि प्रचण्डानि चरितमङ्गलानि, प्रस्थाय दानवाः कतिचिदतिचिरोपरुद्धकण्डूलदोर्मण्डलतया कालविपाकपचेलिमया शक्तिमत्तया च, पर्यवसाययितुमिव भूधरानङ्गुलिस्फोटेन, परिक्षेप्तुमिव मुखमारुतेन सप्त सागरान् उन्मूलयितुमिव समूलमेव पातालं, उत्क्षेप्तुमिव दूरमन्तरिक्षं. व्यत्यासयितुमिव विध्यण्डमण्डलं. निर्वापयितुमिव चन्द्रार्कदीपिकां, दग्धुमिव दहनमपि. भङ्क्तुमिव प्रभञ्जनमपि, बन्द्धुमिव पाशिनमपि, हन्तुमिव दुर्दान्तमन्तकमपि, संनह्यन्त्या किंचिदप्यज्ञातकार्यविशेषतया महामात्रकरचलनमात्रपरिज्ञातगन्तव्यदिशा, गगन एव नित्यनिवासेन कदाप्यनागतां मन्दाकिनीं संभावयितुमापततापत्येव वाहिनीनां, महत्या सेनया साकमागत्य शाखानगरममरावत्याः युगपदाहन्यमानपटहादिबहुविधवाद्यनिर्घोषपोषितकरिलोकबंहितोपबृं-हितभटकोटिसिंहनादकोलाहलेन बोधयामासुरनाशङ्कितपरिभवातङ्कसुखशयितानमृताशनान् ॥ क्रुध्यद्दानवयोधनिर्दयकरव्यामर्दभीमध्वन- न्ननातोर्द्यनिनादकातरपरिक्रन्दद्दिगन्तद्विपम् । जातं प्रातरतर्कितागतमहातङ्कप्रसङ्गक्षण- प्रक्षुभ्यत्पुनरुद्भटामरचमूनीरन्ध्रमैन्द्रं पुरम् ॥
अनुल्लङ्घनीयतापसशापानुसंधानकुण्ठीकृतोद्यमोऽपि कण्ठीरव इव करिलोकबृंहितेन परिज्वलितमन्युः, शतमन्युः उत्थाय शयनीयात्, उत्प्रेक्षितसमरसंरम्भया शचीदेव्या ससंभ्रमस्नेहसाध्वसोद्वेगमुपसृत्य स्त्रीस्वभावसुलभेन कातर्येण 'मानद, मा कुरु साहसमेवंविधं, प्रेष्यन्तां प्रेषणीयाः' इत्यभ्यर्थ्यमानोऽपि तामवधूय, परिजनवधूकरोदस्तविस्रंसमान -संव्यानपल्लवः, संरम्भशिथिलपदक्रमः समागम्य चकितसमुद्बुद्धदौवारिकजनोद्धाट्यमानकवाटि कामूलपुञ्जीभवदनुक्ष-णायातचारवृत्तान्तसमावेदनसंनह्यत्कुब्जवामनजननिरन्तराळिन्दम-न्तःपुरद्वारं, अनादृत्य किङ्करकरावलम्बनं, अनालोक्य निहितामप्यग्रतो मणिपादुकां, अनादिश्य सैनिकागमनं, अनाकाङ्क्ष्य वैनीतकानयनं,
अङ्किभ्यामेव परिक्रामन् , अनाकर्णयन्निवृत्तिविज्ञापनान्यध्वनि मिळतां सैनिकानां, आकु -श्चिताभ्यां भ्रूलताभ्यामाकम्पितेन च मुखेन केवलमाकर्णयन्वच नानि चाराणां, अतिसंभ्रमोपसृत्वरमनिवर्त्यसमरसंरम्भमग्रत एव चलन्तमात्मजं जयन्तमवरुध्य शपथशतैरन्तःपुररक्षणाय निवेशयन्नालयद्वारि, निःसरन्नपि बहिस्ततोऽप्यतित्वरितमालय बाह्यकक्ष्यासमानीतामाबध्य कक्ष्यां,
आद्यवीथीमुखोपनीतामादायदम्भोलिं, अर्धपथोपनीतमवमुच्य वारवाणं, अधिगोपुरसदेशमा नीयमानमारुह्य मातलिसनाथं रथं, अतिलङ्घ्य संकुलचलदमर भटसंघसंकटं दुर्गमं गोपुरद्वारं, अतिक्रम्य निजमपि नासीरं अवगाहमानो दानवचमूं, अलङ्घनीयवचनैरहंप्रथमिकाप्रतिज्ञात विजयैर्दिक्पतिभिर्निरुध्यमानः, चन्द्रोदयारम्भसमुज्जृम्भितसागर इव वेलानियन्त्रितः,
क्षणादुद्रीविकाभिलक्ष्यमाणदुर्निग्रहसमराग्रहः शरीरेण केवलमवातिष्ठत सेनामुखे ॥
॥ इति प्रथमाश्वासः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.