लीढालीढपुराणसूक्तिशकलावष्टम्भसंभावना-
पर्यस्तश्रुतिसेतुभिः कतिपयैर्नीते कलौ सान्द्रताम् ।
श्रीकण्ठोऽवततार यस्य वपुषा कल्क्यात्मनेवाच्युतः
श्रीमानप्पयदीक्षितः स जयति श्रीकण्ठविद्यागुरुः ॥

विस्तारः श्रुतेरुपबृंहणतयेव पुराणाना प्रामाण्यम् । सत्येवं पुराणानुरोधेन श्रुतीरन्यथा नयन्ति केचित् । तादृशो विमतस्थान्खण्डयितुमप्पय्यदीक्षितरूपेण धूर्जटिरवनाववततार । श्रीकण्ठाचार्यप्रणीतस्य ब्रह्मसूत्रभाष्यस्य शिवार्कमणिदीपिकाख्या अभ्यर्हिता व्याख्या श्रीमदप्पय्यदीक्षितेन अकारि । तस्य भ्रातृपौत्र एवास्य ग्रन्थस्य कर्ता नीलकण्ठ ॥
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
ली ढा ली पु रा सू क्ति ला ष्ट म्भ सं भा ना
र्य स्त श्रु ति से तु भिः ति यै र्नी ते लौ सा न्द्र ताम्
श्री ण्ठो ऽव ता स्य पु षा ल्क्या त्म ने वा च्यु तः
श्री मा प्प दी क्षि तः ति श्री ण्ठ वि द्या गु रुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.