Loading data... On slow networks this could take a few minutes.
100%

नन्तव्याः कवयः कतीह बहुमन्तव्या रसज्ञाः कती-
त्येतावत्त्वलसः करोमि कवयो हृष्यन्तु रुष्यन्तु वा ।
आवात्स्यायनतन्त्रमाश्रुतिशिरःसिद्धान्तमुच्चावचा
विद्या यत्प्रभवा जयन्ति भुवि तां वन्दे गिरां देवताम् ॥

विस्तारः ग्रन्थारम्थे स्मरणीया अद्यपि बहवः कवयः सहृदयाश्च, तथापि सर्वेषां मूलभूताया वाग्देव्या ध्यानेन तद्गतार्थ स्यादिति मत्वा तामेवास्मिन् पद्ये नमस्यति । वात्स्यायनतन्त्रं कामशास्त्रम् । श्रुतिशिरांसि उपनिषदः तेषां सिद्धान्तः वेदान्तशास्त्रम् ॥
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
न्त व्याः यः ती हु न्त व्या ज्ञाः ती
त्ये ता त्त्व सः रो मि यो हृ ष्य न्तु रु ष्य न्तु वा
वा त्स्या न्त्र मा श्रु ति शि रः सि द्धा न्त मु च्चा चा
वि द्या त्प्र वा न्ति भु वि तां न्दे गि रां दे ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.