यः संरम्भः कृतिविरचने दुष्कवीनामभेद्यो
यच्चैकाग्र्यं तदुचितपदान्वेषणे चित्तवृत्तेः ।
लभ्यं तच्चेदपि कवयतामन्ततस्त्रीण्यहानि
स्यादेवं किं सरसकविताराज्यदुर्भिक्षयोगः ॥

विस्तारः ग्रन्थकृदयं मधुरानगरी शासितवततिरुमलनायकाख्यस्य भूपतेरमात्य आसीत् । तेन च तस्य बहुकार्यव्यासङ्ग. सुगम एव । तथा च ग्रन्थनिर्माणे तस्यावकाशो मृग्य आसीन्महाकवित्वसंपन्नस्यापि। तथैव सत्कवीनामन्येषामपि । बह्वकाशवता तु कवित्वं नास्ति । कवयितुं परं ते प्रयस्यन्ति । काव्यानि च कर्णारुंतुदानि निर्मिमते । अत एव सत्कविकृतयो विरला जाताः ॥
छन्दः मन्दाक्रान्ता [१७: मभनततगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
यः सं म्भः कृ ति वि ने दु ष्क वी ना भे द्यो
च्चै का ग्र्यं दु चि दा न्वे णे चि त्त वृ त्तेः
भ्यं च्चे पि ता न्त स्त्री ण्य हा नि
स्या दे वं किं वि ता रा ज्य दु र्भि क्ष यो गः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.