Loading data... On slow networks this could take a few minutes.
100%

दृष्ट्वा कौस्तुभमप्सरोगणमपि प्रक्रान्तवादा मिथो
गीर्वाणाः कति वा न सन्ति भुवने भारा दिवः केवलम् ।
निष्क्रान्ते गरे द्रुते सुरगणे निश्चेष्टिते विष्टपे
मा भैष्टेति गिराविरास धुरि यो देवस्तमेव स्तुमः ॥

विस्तारः एतत्सच्छायं विष्णुपरं पद्यमिदम्---- नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेऽतिखिन्ने नाह नाहं न चाहं न च भवति पुनस्तादृशो मादृशेषु । इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते मूलं यः प्रादुरासीत्स दिशतु भगवान्मङ्गलं संततं न ॥
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
दृ ष्ट्वा कौ स्तु प्स रो पि प्र क्रा न्त वा दा मि थो
गी र्वा णाः ति वा न्ति भु ने भा रा दि वः के लम्
नि ष्क्रा न्ते रे द्रु ते सु णे नि श्चे ष्टि ते वि ष्ट पे
मा भै ष्टे ति गि रा वि रा धु रि यो दे स्त मे स्तु मः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.