॥ अथ तृतीयोऽङ्कः ॥
(ततः प्रविशति डिण्डिकवेषो विदूषकः)
विदूषकः—(निरूप्य) भो ! देवउलपीठिआए मम मोदअमल्लअं णिक्खिविअ दक्खिणामासआणि गणिअ बन्धिअ पडिणिवुत्तो दाणि मोदअमल्लअं ण पेक्खामि । (विचिन्त्य) आ एकमोदअपरितोसिदो ण दाव ओलग्गो मे अणुसरदि । उच्चदाए पाआरस्स अगई कुक्कुराणं । अक्खदभत्तदाए अलोहणीअं पहिआणं । अहव अपि णं खाआमि । भोदु ओग्गारइस्सं दाव अहं । ही ही बुड्ढो विअ सूअरवत्थी सुद्धवादं एव्व उग्गिरामि । अहव लोहिदकच्चाअणीए केरअं मम केरअं त्ति करिअ सिवेण पडिहत्थीकिदं भवे । (निरूप्य) जदि वि एसो बम्हआरी बहुकेहि रूवेहि अविणअं करेदि । भोदु पेक्खिस्सं दाव अहं । भो ! एदं खु मम मोदअमल्लअं सिवस्स पादमूले चिट्ठइ । जाव णं गण्हामि । देहि भट्टा ! देहि मे मोदअमल्लअं । भट्टा ! तुवं वि मम चोरो सि । अविहा आलिहिदं खु मम मोदअमल्लअं संदावतिमिरेण सुट्ठु ण पेक्खामि । भोदु पमज्जिस्सं दाव अहं । ही ही साहु रे चित्तअर ! भाव ! साहु । जुत्तलेहदाए वण्णाणं जह जह पमज्जामि, तह तह उज्जलदरं होइ । भोदु, उदएण पमज्जिस्सं । कहिं णु हु उदअं । इदं सोहणं सुद्धतडाअं । अहं विअ सिवो वि दाव एदस्सिं मोदअमल्लए णिरासो होदु । [भो ! देवकुलपीठिकायां मम मोदकमल्लकं निक्षिप्य दक्षिणामाषकान् गणयित्वा बद्ध्वा प्रतिनिवृत्त इदानीं मोदकमल्लकं न प्रेक्षे । (विचिन्त्य) आ एकमोदकपरितोषितो न तावदवलग्नो मामनुसरति । उच्चतया प्राकारस्यागतिः कुक्कुराणाम् । अक्षतभक्ततयालोभनीयं पथिकानाम् । अथवा अप्येनं खादामि । भवतु उद्गरिष्यामि तावदहम् । ही ही वृद्ध इव सूकरबस्तिः शुद्धवातमिवोद्गिरामि । अथवा लोहितकात्यायन्या मम इति कृत्वा शिवेन प्रतिहस्तीकृतं भवेत् । (निरूप्य) यद्यप्येष ब्रह्मचारी बहुकै रूपैरविनयं करोति । भवतु प्रेक्षिष्ये तावदहम् । भो ! एष खलु मम मोदकमल्लकः शिवस्य पदमूले तिष्ठति । यावदेनं गृह्णामि । देहि भर्तः ! देहि मे मोदकमल्लकम् । भर्तः ! त्वमपि मम चोरोऽसि । अविद्या आलिखितं खलु मम मोदकमल्लकं सन्तापतिमिरेण सुष्ठु न प्रेक्षे । भवतु प्रमार्जिष्यामि तावदहम् । ही ही साधु रे चित्रकर ! भाव ! साधु । युक्तलेखतया वर्णानां यथा यथा प्रमार्ज्मि, तथा तथोज्ज्वलतरं भवति । भवतु, उदकेन प्रमार्जिष्यामि । कुत्र नु खल्वुदकम् । इदं शोभनं शुद्धतटाकम् । अहमिव शिवोऽपि तावदेतस्मिन् मोदकमल्लके निराशो भवतु ।]
(नेपथ्ये)
मोदआ ! मोदआ ! हहह । [मोदकाः ! मोदकाः ! हहह ।]
विदूषकः—अविहा एसो उम्मत्तओ मम मोदअमल्लअं गण्हिअ हसमाणो फेणायमाणमलिणवरिसारच्छोदअं विअ इदो एव्वाहावइ । चिट्ठ चिट्ठ उम्मत्तअ ! चिट्ठ । इमिणा दण्डअट्ठेण सीसं दे भिन्दामि । [अविधा एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा हसन् फेनायमानमलिनवर्षारथ्योदकमिवितो एवाधावति । तिष्ठ तिष्ठोन्मत्तक ! तिष्ठ । अनेन दण्डकाष्ठेन शीर्षं ते भिनद्मि ।]
इति प्रवेशकः ।
अथ तृतीयोऽङ्कः ।
(ततः प्रविशत्युन्मत्तकः)
उन्मत्तकः—मोदआ ! मोदआ ! हहह । [मोदकाः ! मोदकाः ! हहह ।]
विदूषकः—भो उम्मत्तअ ! आणेहि मम मोदअमल्लअं । [भो उन्मत्तक ! आनय मम मोदकमल्लकम् ।]
उन्मत्तकः—किं मोदआ । कहिं मोदआ । कस्स मोदआ । किं इमे मोदआ उज्झन्ति, आदु पिणज्झन्ति, उदाहो खज्जन्ति । [किं मोदकाः । कुत्र मोदकाः । कस्य मोदकाः । किमिमे मोदका उज्झ्यन्ते, अथवा पिनह्यन्ते, उताहो खाद्यन्ते ।]
विदूषकः—ण खज्जन्ति ण पिणज्झन्ति ण उज्झन्ति अ । [न खाद्यन्ते न पिनह्यन्ते नोज्झ्यन्ते च ।]
उन्मत्तकः—एसा खु मम रसणा खाइदुकामा लिङ्गाणि करेदि । [एषा खलु मम रसना खादितुकामा लिङ्गानि करोति ।]
विदूषकः—भो उम्मत्तअ ! आणेहि मम मोदअमल्लअं । मा परकेरए सिणेहं करिअ ओवज्झेहि । [भो उन्मत्तक ! आनय मम मोदकमल्लकम् । मा परस्मिन् स्नेहं कृत्वावबध्यस्व ।]
उन्मत्तकः—के के मं वज्झन्ति । मोदआ खु मं रक्खन्ति । [के के मां बध्नन्ति । मोदकाः खलु मां रक्षन्ति ।]
३.१
नेपथ्यविशेषमण्डिताः प्रीतिमुपदातुमुपस्थिताः । राजगृहे दत्तमूल्याः कालवशेन मुहूर्तदुर्बलाः ॥
Summary AI Adorned with special decorations and ready to offer delight, she who was stamped with the royal seal in the palace has now become momentarily weak due to the power of time.
सारांश AI विशेष वेशभूषा से सुसज्जित और प्रसन्नता देने के लिए उपस्थित, राजगृह में मूल्य चुकाकर प्राप्त वस्तु समय के प्रभाव से क्षणभर के लिए दुर्बल हो गई है।
विदूषकः—भो उम्मत्तअ ! आणेहि मम मोदअमल्लअं । इमिणा पच्चएण उवज्झाअउलं गन्तव्वं । [भो उन्मत्तक ! आनय मम मोदकमल्लकम् । अनेन प्रत्ययेनोपाध्यायकुलं गन्तव्यम् ।]
उन्मत्तकः—मए वि इमिणा पच्चएण जोअणसदं गन्तव्वं । [मयाप्यनेन प्रत्ययेन योजनशतं गन्तव्यम् ।]
विदूषकः—किं एलावणे तुवं । [किमैरावणस्त्वम् ।]
उन्मत्तकः—आम एलावणे अहं । ण हु दाव देवराजो मं आसणं आलुहदि । सुदं च मया पादपासिएहि इन्दे वज्झ त्ति । धाराणिअलेहि विज्जुमईहि कसाहि तालिअ वाउब्भामेण परिब्भन्तेण भिन्दीअदि मेहबन्धणं । [आम्, ऐरावणोऽहम् । न खलु तावद् देवराजो मामासनमारोहति । श्रुतं च मया पादपाशिकैरिन्द्रो बद्ध इति । धारानिगलैर्विद्युन्मयीभिः कशाभिस्ताडयित्वा वातोद्भ्रामेण परिभ्रमता भिद्यते मेघबन्धनम् ।]
विदूषकः—भो उम्मत्तअ ! ण तुवं मम दइस्ससि, विलविस्सं दाव अहं । [भो उन्मत्तक ! न त्वं मम दास्यसि, विलपिष्यामि तावदहम् ।]
उन्मत्तकः—विलव विलव विक्कोस वा विलव । [विलप विलप विक्रोश वा विलप ।]
विदूषकः—अब्बम्हण्णं भो ! अब्बम्हण्णं । [अब्रह्मण्यं भोः ! अब्रह्मण्यम् ।]
उन्मत्तकः—अहं पि विलविस्सं । इन्दे वज्झे भो ! इन्दे वज्झे भो ! [अहमपि विलपिष्यामि । इन्द्रो बद्धो भोः ! इन्द्रो बद्धो भोः !]
विदूषकः—अब्बम्हण्णं भो ! अब्बम्हण्णं । [अब्रह्मण्यं भोः ! अब्रह्मण्यम् ।]
(नेपथ्ये)
मा भाआहि मा भाआहि बम्हणाउस ! मा भाआहि । [मा बिभीहि मा बिभीहि ब्राह्मणोपासक ! मा बिभीहि ।]
विदूषकः—(सहर्षम्) आअदे चन्दे समाअदाणि सव्वणक्खत्ताणि । अघं वम्हणभावो । ईहामत्तएण समणएण अभअं दीअदि । [(सहर्षम्) आगते चन्द्रे समागतानि सर्वनक्षत्राणि । अघं ब्राह्मणभावः । ईहामात्रकेण श्रमणकेनाभयं दीयते ।]
(ततः प्रविशति श्रमणकः)
श्रमणकः—मा भाआहि मा भाआहि बम्हणाउस ! मा भाआहि । के के इह, किं कज्जं, विलवन्दि । [मा बिभीहि मा बिभीहि ब्राह्मणोपासक ! मा बिभीहि । के के इह, किं कार्यं, विलपन्ति ।]
विदूषकः—अविहा पडिहाररक्खअवुत्तिं खु समणओ अणुहोदि । भो समणअ ! भअवं ! एसो उम्मत्तओ मम मोदअमल्लअं गण्हिअ ण देदि । [अविद्या प्रतिहाररक्षकवृत्तिं खलु श्रमणकोऽनुभवति । भोः श्रमणक ! भगवन् ! एष उन्मत्तको मम मोदकमल्लकं गृहीत्वा न ददाति ।]
श्रमणकः—मोदअं पेक्खामि दाव । [मोदकं प्रेक्षे तावत् ।]
उन्मत्तकः—पेक्खदु पेक्खदु समणअ भवं ! [प्रेक्षतां प्रेक्षतां श्रमणक ! भवान् ।]
श्रमणकः—थु थु । [थू थू ।]
विदूषकः—हद्धि उम्मत्तअस्स हत्थे ईहामत्तएण समणएण थूथूकिदा अधण्णस्स मम मोदआ दिट्ठपुव्वा एव्व संवुत्ता । [हा धिग् उन्मत्तकस्य हस्ते ईहामात्रकेण थू थू कृता अधन्यस्य मम मोदका दृष्टपूर्वा एव संवृत्ताः ।]
श्रमणकः—भो उम्मत्तआउस ! णीआदेहि णीआदेहि एदाणि मोदआणि कत्थूलिआफेणपण्डराणि बहुपिट्ठसमिद्धकोमलाणि णिट्ठाणिअ सुरा विअ महुराणि । मा दे खाइदाणि खअं उप्पादेन्ति । [भो उन्मत्तकोपासक ! निर्यातय निर्यातयैतानि मोदकानि कस्थूलिकाफेनपाण्डराणि बहुपिष्टसमृद्धकोमलानि निष्ठानिताः सुरा इव मधुराणि । मा ते खादितानि क्षयमुत्पादयन्ति ।]
विदूषकः—अविहा मोदआणि त्ति करिअ कण्डिललड्डुआ मे पडिच्छिदा । [अविधा मोदकानीति कृत्वा कण्डिललड्डुका मे प्रतीष्टाः ।]
श्रमणकः—उम्मत्तआउस ! णीआदेहि णीआदेहि । जदि ण णीआदेसि, तुवं सवेमि । [उन्मत्तकोपासक ! निर्यातय निर्यातय । यदि न निर्यातयसि, त्वां शपामि ।]
उन्मत्तकः—पसीददु पसीददु समणअ ! भअवं । मा खु मा खु मं सविदुं । गण्ह गण्ह । [प्रसीदतु प्रसीदतु श्रमणक ! भगवन् । मा खलु मा खलु मां शप्तुम् । गृहाण गृहाण ।]
श्रमणकः—बम्हणाउस ! पेक्ख पेक्ख मम प्पभावं । [ब्राह्मणोपासक ! प्रेक्षस्व प्रेक्षस्व मम प्रभावम् ।]
विदूषकः—एसो उम्मत्तओ एदेण ईहामत्तएण समणएण उज्झिदं सावं पेक्खिअ मोदअमल्लअं भीदभीदं अग्गङ्गुलिआए पसारिदाए ठाविअ चिट्ठइ । भो उम्मत्तअ ! आणेहि मम मोदअमल्लअं । [एष उन्मत्तक एतेनेहामात्रकेण श्रमणकेनोज्झितं शापं प्रेक्ष्य मोदकमल्लकं भीतभीतमग्राङ्गुल्यां प्रसारितायां स्थापयित्वा तिष्ठति । भो उन्मत्तक ! आनय मम मोदकमल्लकम् ।]
श्रमणकः—एदु एदु भवं । एदेहि मोदएहि मं सोत्थि वाअइस्ससि । [एत्वेतु भवान् । एतैर्मोदकैर्मां स्वस्ति वाचयिष्यसि ।]
विदूषकः—ही ही मम केरएहिं सोत्थि वाएमि । मए वि कोडुम्बिअस्स हत्थादो पडिग्गहगहीदाणि । ताणि भवदो वि उवाअणं भविस्सदि । सो वि समिद्धो होदु । एसो उम्मत्तओ अग्गिगिहं अहिमुहो गच्छइ । ट्ठिदो मज्झण्हो । पुव्वण्हे वि दाव अअं देसो सुञ्ञो भविस्सदि । जाव अहं वि इमाणि दक्खिणामासआणि मग्गगेहे णिक्खिविअ गच्छामि । एकस्स साडिआए कज्जं अवरस्स मुल्लेण । [ही ही मम स्वस्ति वाचयामि । मयापि कौटुम्बिकस्य हस्तात् प्रतिग्रहगृहीतानि । तानि भवतोऽप्युपायनं भविष्यन्ति । सोऽपि समृद्धो भवतु । एष उन्मत्तकोऽग्निगृहमभिमुखो गच्छति । स्थितो मध्याह्नः । पूर्वाह्णेऽपि तावदयं देशः शून्यो भविष्यति । यावदहमपीमान् दक्षिणामाषकान् मार्गगेहे निक्षिप्य गच्छामि । एकस्य शाटिकया कार्यमपरस्य मूल्येन ।]
(सर्वेऽग्निगृहं प्रविशन्ति)
यौगन्धरायणः—वसन्तक ! शून्यमिदमग्निगृहम् ।
विदूषकः—आम भो ! सुञ्ञं खु इदं । [आं भोः ! शून्यं खल्विदम् ।]
यौगन्धरायणः—तेन हि परिष्वजेतां भवन्तौ ।
उभौ—बाढम् ।
(परिष्वजेते)
यौगन्धरायणः—भवतु भवतु । तुल्यपरिश्रमौ भवन्तौ । आस्तां भवान् । भवानप्यास्ताम् ।
उभौ—बाढम् ।
(सर्व उपविष्टाः)
यौगन्धरायणः—वसन्तक ! अपि दृष्टस्त्वया स्वामी ।
विदूषकः—आम भो ! दिट्ठो तत्तभवं । [आं भोः ! दृष्टस्तत्रभवान् ।]
यौगन्धरायणः—हन्त भोः अतिक्रान्तयोगक्षेमा रात्रिः । दिवस इदानीं प्रतिपाल्यते ।
३.२
अहः समुत्तीर्य निशा प्रतीक्ष्यते
शुभे प्रभाते दिवसोऽनुचिन्त्यते ।
अनागतार्थान्यशुभानि पश्यतां
गतं गतं कालमवेक्ष्य निर्वृतिः ॥
Summary AI Having crossed the day, the night is awaited; at the auspicious dawn, the day is reflected upon. For those who foresee future calamities, relief is found only in observing each passing moment of time that has already gone.
सारांश AI दिन बीतने पर रात्रि की प्रतीक्षा की जाती है और शुभ प्रातःकाल में आगामी दिन का विचार होता है। भविष्य की आपदाओं की आशंका करने वालों को केवल बीते समय को देखकर ही संतोष मिलता है।
रुमण्वान्—सम्यग् भवानाह । तुल्येऽपि कालविशेषे निशेव बहुदोषा बन्धनेषु । कुतः,
३.३
व्यवहारेष्वसाध्यानां लोके वा प्रतिरज्यताम् ।
प्रभाते दृष्टदोषाणां वैरिणां रजनी भयम् ॥
Summary AI For those who are uncontrollable in their dealings or excessively attached to the world, and for enemies whose faults are revealed at dawn, the night remains a source of constant fear.
सारांश AI व्यवहार में कठिन और लोक में द्वेष के पात्र, जिनके दोष प्रातःकाल सिद्ध हो चुके हैं, ऐसे शत्रुओं के लिए रात्रि अत्यंत भयावह होती है।
यौगन्धरायणः—वसन्तक ! स्वामिना सह कथितं ननु ।
विदूषकः—आम भो ! चिरं एव्व अम्हि तत्तहोदा ओवज्झो । अज्ज चउद्दसीण्हाअमाणो पडिवालिदो अ । [आं भोः ! चिरमेव चास्मि तत्रभवतावबद्धः । अद्य चतुर्दशीं स्नायमानः प्रतिपालितश्च ।]
यौगन्धरायणः—स्नातः स्वामी ।
विदूषकः—ण्हादो अत्तभवं । [स्नातोऽत्रभवान् ।]
यौगन्धरायणः—कृतं देवकार्यम् ।
विदूषकः—आम भो ! पणाममत्तेण पूइदा देवदा । [आं भोः ! प्रणाममात्रेण पूजिता देवताः ।]
यौगन्धरायणः—एतामपि बहुमतामवस्थां प्राप्तः स्वामी । कुतः,
३.४
स्नातस्य यस्य समुपस्थितदैवतस्य
पुण्याहघोषविरमे पटहा नदन्ति ।
तस्येव कालविभवात् तिथिपूजनेषु
दैवप्रणामचलिता निगलाः स्वनन्ति ॥
Summary AI For him, at the conclusion of whose auspicious chants after bathing and worshipping the deities, the kettle-drums used to sound, now, by the turn of time, during the worship on holy days, the fetters moved by his prostrations to the gods clank instead.
सारांश AI स्नान और देव-पूजन के बाद जिसके लिए मांगलिक नगाड़े बजते थे, समय के फेर से अब पर्वों पर देवताओं को प्रणाम करते समय उसी राजा की बेड़ियाँ खनखनाती हैं।
रुमण्वान्—भवत इदानीं प्रयत्न उचितं तिथिसत्कारमानेष्यति स्वामिनः ।
यौगन्धरायणः—वसन्तक ! गच्छ भूयः स्वामिनं पश्य । विज्ञाप्यतां च स्वामी---या सा प्रयाणं प्रतीह प्रस्तुताः कथाः, तस्याः श्वः प्रयोगकाल इति । कुतः, स्थानावगाहयवसशय्याभागेष्वाश्रयेष्वुपन्यस्तौषधिव्याजो नलगिरिर्मन्त्रौषधिनियमसम्भृतः पुराणकर्मव्यामोहितः, अनुकूलमारुतमोक्तव्यः सज्जितो धूपः, रोषप्रतिकूलोऽस्य सज्जितः प्रतिगजमदः, शालासन्निकृष्टं मल्लप्रसाधनं गृहमादीपयितुमग्नित्रासित्वाद्वारणानाम्, गजपतिचित्तोद्भ्रमणार्थं देवकुलेषु स्थापिताः शङ्खदुन्दुभयः, तेन नादेन सर्वसाधनपरिगतशरीरेणावश्यं श्वः प्रद्योतेन स्वामी शरणमुपगन्तव्यः । ततः स्वामिना शत्रोरनुमतेनैव बन्धनान्निष्क्रम्य सह व्यापन्नां घोषवतीं हस्तगतां कृत्वा नलगिरिः स्वाधीनः कर्तव्यः । ततो व्यवस्थितास्तदानीं स्वामी नलगिरौ,
३.५
सेनाभिर्मनसानुबद्धजघनं कृत्वा जवे वारणं
सिंहानामसमाप्त एव विरुते त्यक्त्वा सविन्ध्यं वनम् ।
एकाहे व्यसने वने स्वनगरे गत्वा त्रिवर्णां दशां
येनैव द्विरदच्छलेन नियतस्तेनैव निर्वाह्यते ॥
Summary AI Having pursued the elephant with armies and mind at great speed, and leaving the Vindhya forest before the lions' roars ended, he experienced three different states in a single day—in calamity, in the forest, and in his own city. He is now being rescued by the very same elephant-ruse by which he was captured.
सारांश AI जो सेना के साथ तीव्र गति वाले हाथी का पीछा करते हुए सिंहों की दहाड़ शांत होने से पहले ही विन्ध्य वन पार कर लेता था, विपत्तिग्रस्त वही राजा अब उसी हाथी के छल से मुक्त कराया जा रहा है जिससे उसे छला गया था।
यौगन्धरायणः—इति ।
रुमण्वान्—वसन्तक ! किमिदानीं चिन्त्यते ।
विदूषकः—एव्वं चिन्तेमि महन्तो खु भवदो पयत्तो विवज्जिस्सदि त्ति । [एवं चिन्तयामि महान् खलु भवतः प्रयत्नो विपत्स्यते इति ।]
उभौ—न खलु वयं विज्ञातारः ।
विदूषकः—अहं पुढमं पच्चा भवन्तो । [अहं प्रथमं पश्चाद्भवन्तौ ।]
यौगन्धरायणः—अथ किं कृता कार्यविपत्तिः ।
विदूषकः—वच्छराअस्स अण्णकज्जदाए । [वत्सराजस्यान्यकार्यतया ।]
यौगन्धरायणः—कथमिव ।
विदूषकः—सुणह भवन्तो । [शृणुतं भवन्तौ ।]
उभौ—अवहितौ स्वः ।
विदूषकः—जा सा कालट्ठमी अदिक्कन्ता, तहिं तत्तहोदी वासवदत्ता णाम राअदारिआ धाईदुदीआ कण्णआदंसणं णिद्दोसं त्ति करिअ अवणीदकञ्चुआए सिविआए ओघट्टिदपणालीपस्सुदसलिलविसमं राअमग्गं परिहरिअ जं तं बन्धणदुवारस्स अग्गदो भअवदीए जक्खिणीए ठाणं, तस्मिं देवकज्जं कत्तुं गआ आसी । [या सा कालाष्टम्यतिक्रान्ता, तस्यां तत्रभवती वासवदत्ता नाम राजदारिका धात्रीद्वितीया कन्याकादर्शनं निर्दोषमिति कृत्वापनीतकञ्चुकायां शिबिकायामवघट्टितप्रणालीप्रस्रुतसलिलविषमं राजमार्गं परिहृत्य यत्तद् बन्धनद्वारस्याग्रतो भगवत्या यक्षिण्याः स्थानं, तस्मिन् देवकार्यं कर्तुं गतासीत् ।]
यौगन्धरायणः—ततस्ततः ।
विदूषकः—तदो तत्तभवं तं दिअसं अब्भन्तरबन्धणपरिरक्खअं सिवअं णाम राअदासं अणुमाणिअ बन्धणदुवारे णिक्कन्तो । [ततस्तत्रभवान् तं दिवसमभ्यन्तरबन्धनपरिरक्षकं शिवकं नाम राजदासमनुमान्य बन्धनद्वारे निष्क्रान्तः ।]
उभौ—ततस्ततः ।
विदूषकः—तदो पुरुसक्खन्धपरिवट्टणट्ठिदाए सिविआए पकामं दिट्ठा सा राअदारिआ । [ततः पुरुषस्कन्धपरिवर्तनस्थितायां शिबिकायां प्रकामं दृष्टा सा राजदारिका ।]
यौगन्धरायणः—ततस्ततः ।
विदूषकः—किं तदो तदो त्ति । बन्धणं दाणिं पमदवणं सम्भाविअ पउत्तो राअलीलं कत्तुं । [किं ततस्तत इति । बन्धनमिदानीं प्रमदवनं सम्भाव्य प्रवृत्तो राजलीलां कर्तुम् ।]
यौगन्धरायणः—न खलु तां प्रति समुत्पन्नोऽभिलाषः स्वामी ।
विदूषकः—भो ! संघआरिणो अणत्थ त्ति ईदिसं एव्व । [भो ! सङ्घचारिणोऽनर्था इतीदृशमेव ।]
यौगन्धरायणः—सखे रुमण्वन् ! स्थिरीक्रियतामात्मा । अनेनैव वेषेण जरा गन्तव्या ।
विदूषकः—भो ! अहं च एदेण उत्तो---भणेहि जोअन्धराअणस्स जह समत्थिदा समत्थणा ण रोअदे मे । समाणे गमणे पज्जोदस्स अवमाणविसेसो चिन्तीअदि । मा कामप्पहाण त्ति मं अवमण्णेहि । अवमाणस्स अवचिदिं अण्णेसामि त्ति । [भोः ! अहं चैतेनोक्तः---भण यौगन्धरायणाय यथा समर्थिता समर्थना न रोचते मे । समाने गमने प्रद्योतस्यावमानविशेषश्चिन्त्यते । मा कामप्रधान इति मामवमन्यस्व । अवमानस्यापचितिमन्विष्यामीति ।]
यौगन्धरायणः—अहो शत्रुजनापहास्यमभिधानम् । अहो निरपत्रपता खलु बुद्धेः । अहो सुहृज्जनसन्तापकारणम् । अदेशकाले ललितं कामयते स्वामी । कुतः,
३.६
शक्ता दर्पयितुं स्वहस्तरचिता भूमिः कटप्रच्छदा
पर्याप्तो निगलस्वनश्चरणयोः कन्दर्पमालम्बितुम् ।
कः श्रुत्वा न भवेद्धि मन्मथपटुः प्रत्यक्षतो बन्धने
रक्षार्थं परिगण्यमानपुरुषै राजेति शब्दापनम् ॥
Summary AI The ground covered with a hand-made mat is enough to cause pride, and the clanking of fetters on the feet is sufficient to evoke passion. Who would not become an expert in love upon hearing the guards, stationed for protection in the prison, addressing him as 'King'?
सारांश AI स्वयं के हाथों चटाई से बिछाई गई भूमि और पैरों की बेड़ियों की झंकार कामदेव को जागृत करने के लिए पर्याप्त है। बंदी होने पर भी रक्षकों द्वारा 'राजा' संबोधन सुनकर कौन काम-विह्वल नहीं होगा?
विदूषकः—भो ! दंसिदो सिणेहो । णिव्विट्ठो पुरुसआरो । साहु उज्झिअ णं गच्छामो । [भोः ! दर्शितः स्नेहः । निर्विष्टः पुरुषकारः । साधूज्झित्वैनं गच्छामः ।]
यौगन्धरायणः—वसन्तको भवान् ननु । वसन्तक ! मा मैवम् ।
३.७
परित्यजामः सन्तप्तं दुःखेन मदनेन च ।
सुहृज्जनमुपाश्रित्य यः कालं नावबुध्यते ॥
Summary AI We are abandoning him who is tormented by grief and passion, and who, relying on the company of friends, does not realize the gravity of the situation or the passing of time.
सारांश AI हम दुःख और काम से पीड़ित उस व्यक्ति को छोड़ रहे हैं जो मित्रों के समीप होने पर समय की गंभीरता को नहीं समझ रहा है।
विदूषकः—एव्वं एव्व जरं गमिस्सामो । [एवमेव जरां गमिष्यामः ।]
यौगन्धरायणः—तन्ननु श्लाघ्यम् ।
विदूषकः—सिलाघणीओ भवे, जदि लोओ जाणादि । [श्लाघनीयो भवेद्, यदि लोको जानाति ।]
यौगन्धरायणः—न नः कार्यं लोकेन, स्वामिप्रियार्थोऽयमारम्भः ।
विदूषकः—सो वि दाव ण जाणादि । [सोऽपि तावन्न जानाति ।]
यौगन्धरायणः—काले ज्ञास्यति ।
विदूषकः—कदमो दाणिं सो कालो । [कतम इदानीं स कालः ।]
यौगन्धरायणः—यदियमारम्भसिद्धिः ।
विदूषकः—तदो तादिसो भवं बन्धणादो राआणं अन्तेउरादो राअदारिअं उभे णिच्छादेदु । [ततस्तादृशो भवान् बन्धनाद्राजानमन्तःपुराद्राजदारिकामुभे निर्यातयतु ।]
रुमण्वान्—इह भवता द्रष्टव्यम् ।
यौगन्धरायणः—उभयमिति । बाढम् । इयं द्वितीया प्रतिज्ञा---
३.८
सुभद्रामिव गाण्डीवी नागः पद्मलतामिव ।
यदि तां न हरेद्राजा नास्मि यौगन्धरायणः ॥
Summary AI Like Arjuna carrying away Subhadrā, or an elephant uprooting a lotus stalk, if the King does not carry her off, I am not Yaugandharāyaṇa.
सारांश AI जैसे अर्जुन ने सुभद्रा का और हाथी ने कमलिनी का हरण किया था, यदि राजा उदयन उस वासवदत्ता का हरण न करें, तो मैं यौगन्धरायण नहीं।
यौगन्धरायणः—अपि च,
३.९
यदि तां चैव तं चैव तां चैवायतलोचनाम् ।
नाहरामि नृपं चैव नास्मि यौगन्धरायणः ॥
Summary AI If I do not rescue the lute, the elephant, the large-eyed princess Vāsavadattā, and the King himself, then I am not Yaugandharāyaṇa.
सारांश AI यदि मैं उस विशाल नेत्रों वाली सुन्दरी वासवदत्ता और राजा उदयन को वापस न ले आऊँ, तो मेरा नाम यौगन्धरायण नहीं है।
यौगन्धरायणः—(कर्णं दत्त्वा) अये शब्द इव । ज्ञायतां शब्दः ।
विदूषकः—भो ! तह । (निष्क्रम्य प्रविश्य) पडिउत्तदिवसविस्सम्भेण अविरलं सञ्चरन्तो जणो दीसइ । किं दाणिं करम्ह । [भोस्तथा । परिवृत्तदिवसविस्रम्भेणाविरलं सञ्चरन् जनो दृश्यते । किमिदानीं कुर्मः ।]
रुमण्वान्—तेन हि चतुर्द्वारमग्निगृहं, भिद्यतां नः संघातः ।
यौगन्धरायणः—न न । अभिन्नो नः संघातः । भिद्यतामरिसंघातः । स्वकार्यमनुष्ठीयताम् ।
उभौ—तह । [तथा ।]
(निष्क्रान्तौ)
उन्मत्तकः—ही ही चन्दं गिलदि राहू । मुञ्च मुञ्च चन्दं । यदि ण मुञ्चेसि, मुहं दे पाडिअ मुञ्चावइस्सं । एसे एसे दुट्ठअस्सो परिब्भट्ठे आअच्छदि । एसे एसे चउप्पहवीहिआअं । जाव णं आलुहिअ बलिं भक्खिस्सं । एसे एसे दालअभट्टा ! मं तालेह । मा खु मा खु मं तालेह । किं भणासि---अम्हाणं किं पि णच्चेहि त्ति । दक्खह दक्खह दालअभट्टा ! एसे दालअभट्टा ! पुणो वि मं तालेह इट्टिआहि । मा खु मा खु तालेह । तेण हि अहं पि तुम्हे तालेमि । [ही ही चन्द्रं गिरति राहुः । मुञ्च मुञ्च चन्द्रम् । यदि न मुञ्चसि, मुखं ते पाटयित्वा मोचयिष्यामि । एष एष दुष्टोऽश्वः परिभ्रष्ट आगच्छति । एष एष चतुष्पथवीथिकायाम् । यावदेनमारुह्य बलिं भक्षयिष्यामि । एते एते दारकभर्तारः ! मां ताडयथ । मा खलु मा खलु मां ताडयत । किं भणथ---अस्माकं किमपि नृत्येति । पश्यत पश्यत दारकभर्तारः ! एते दारकभर्तारः ! पुनरपि मां ताडयथेष्टिकाभिः । मा खलु मा खलु ताडयत । तेन हि अहमपि युष्मांस्ताडयामि ।]
(निष्क्रान्तः)
इति तृतीयोऽङ्कः ।
॥ इति तृतीयोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.