॥ अथ द्वितीयोऽङ्कः ॥
(ततः प्रविशति काञ्चुकीयः)
काञ्चुकीयः—आभीरक ! गच्छ महासेनवचनात् प्रतीहाररक्षकं ब्रूहि---एष काशिराजोपाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तः । अस्य सामान्यदूतसत्कारं पृष्ठतः कृत्वा सुखमिव निवेश्यताम् । यथा चातिथिसत्कारं जानीयात्तथा प्रयतितव्यमिति । भो ! एवं नामाहन्यहनि गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेषणा वर्तते । न खलु महासेनः कञ्चिदपि प्रत्याचष्टे, न चाप्यनुगृह्णीते । किं नु खल्विदम् । अथवा दैवमत्र कन्याप्रदानेऽधिकृतम् । कुतः,
२.१
व्यक्तं न तावत् समुपैति तस्य
दूतो वधूत्वे विहिता हि यस्य ।
ततो नरेन्द्रेषु गुणान् नरेन्द्रो
न वेत्ति जानन्नपि तत्प्रतीक्षः ॥
Summary AI The messenger of the one for whom the daughter is destined as a bride does not arrive. Consequently, the King, while waiting for him, fails to acknowledge the merits of other kings, even though he is aware of them.
सारांश AI जिसके लिए कन्या का विवाह निश्चित किया गया है, उसका दूत अभी तक नहीं आया है। इसी प्रतीक्षा में महाराज अन्य राजाओं के गुणों को जानते हुए भी उनकी अनदेखी कर रहे हैं।
काञ्चुकीयः—अये संलीयमानान्तःपुरचरः सनाथीभवत्ययं देशः । अये अयं महासेनः, य एषः,
२.२
दूर्वाङ्कुरस्तिमितनीलमणिप्ररोहैः
पीताङ्गदैः परिगतैः परिणीवितांसः ।
अस्माद् घनात् कनकतालवनैकदेशाद्
निर्धावितः शरवणादिव कार्त्तिकेयः ॥
Summary AI With shoulders adorned by golden armlets inlaid with blue gems as steady as fresh dūrvā sprouts, he rushed out from this dense part of the golden palm forest like Kārttikeya emerging from the forest of reeds.
सारांश AI दूर्वा के अंकुर के समान नीलमणि की आभा वाले और पीले बाजूबंदों से सुशोभित कंधों वाले वे, स्वर्णमयी ताड़ के वन के एक भाग से इस प्रकार निकले जैसे शरवन से कार्तिकेय प्रकट हुए हों।
(निष्क्रान्तः)
इति विष्कम्भकः ।
अथ द्वितीयोऽङ्कः ।
(ततः प्रविशति राजा सपरिवारः)
२.३
मम हयखुरभिन्नं मार्गरेणुं नरेन्द्रा
मुकुटतटविलग्नं भृत्यभूता वहन्ति ।
न च मम परितोषो यन्न मां वत्सराजः
प्रणमति गुणशाली कुञ्जरज्ञानदृप्तः ॥
Summary AI Subjugated kings carry on the edges of their crowns the dust of the path kicked up by my horse's hooves. Yet, I find no satisfaction as long as the virtuous Vatsarāja, arrogant in his knowledge of elephants, does not bow to me.
सारांश AI मेरे घोड़ों के खुरों से उड़ी धूल को अन्य राजा अपने मुकुटों पर सेवकों की भांति धारण करते हैं, किंतु मुझे तब तक संतोष नहीं है जब तक महान गुणों वाले और गज-विद्या के ज्ञाता वत्सराज मुझे प्रणाम नहीं करते।
राजा—बादरायण !
(प्रविश्य)
काञ्चुकीयः—जयतु महासेनः ।
राजा—निवेशितो जैवन्तिः ।
काञ्चुकीयः—निवेशितोऽनुरूपतश्च सत्कृतः ।
राजा—न्याय्यं कृतं राजवंश्यगुणाभिलाषिणा । समागतानां युक्तः पूजया प्रतिग्रहः । अथ सर्वोऽपि कन्याप्रदानं प्रति पृष्टश्चेत् परच्छन्देन तिष्ठति । (काञ्चुकीयमवलोक्य) बादरायण ! वक्तुकाममिव त्वां लक्षये ।
काञ्चुकीयः—न खलु किञ्चित् । कन्याप्रदानं प्रति समुत्पन्नोऽभिमर्शः ।
राजा—अलमलं परिहृत्य । सर्वसाधारणो ह्येष विधिः । अभिधीयताम् ।
काञ्चुकीयः—महासेन ! एषा मे विवक्षा---एवं नामाहन्यहनि गोत्रानुकूलेभ्यो राजकुलेभ्यः कन्याप्रदानं प्रति दूतसम्प्रेक्षणा वर्तते । न च महासेनः कश्चिदपि प्रत्याचष्टे, न चाप्यनुगृह्णीते । किं नु खल्विदमिति ।
राजा—बादरायण ! एवमेतत् । अतिलोभाद् वरगुणानामतिस्नेहाच्च वासवदत्तायां न शक्नोमि निश्चयं गन्तुम् ।
२.४
कुलं तावच्छ्लाघ्यं प्रथममभिकाङ्क्षे हि मनसा ततः सानुक्रोशं मृदुरपि गुणो ह्येष बलवान् । तद्रूपे कान्तिं न खलु गुणतः स्त्रीजनभयात् तद् वीर्योदग्रं न हि न परिपाल्या युवतयः ॥
Summary AI I first desire a noble lineage; then compassion, for even a gentle quality is powerful. I seek beauty in her form arising from merit, not mere feminine charm. I desire high valor, for young women must certainly be protected.
सारांश AI मैं पहले श्रेष्ठ कुल की कामना करता हूँ, फिर दयालुता की, जो एक अत्यंत प्रभावशाली गुण है। कन्या के लिए रूप की इच्छा सौंदर्य के लोभ से नहीं बल्कि स्त्रियों की सुरक्षा के भय से है, और पराक्रम स्त्रियों की रक्षा के लिए आवश्यक है।
काञ्चुकीयः—महासेनं वर्जयित्वा न हीदानीमेते गुणाः क्वचिदेकस्था दृश्यन्ते ।
राजा—अतः खलु चिन्त्यते ।
२.५
कन्याया वरसम्पत्तिः पितुः प्रायः प्रयत्नतः ।
भाग्येषु शेषमायत्तं दृष्टपूर्वं न चान्यथा ॥
Summary AI Securing a suitable husband for a daughter is generally the result of a father's effort. The rest depends entirely on fortune. This has been observed before and is never otherwise.
सारांश AI कन्या के लिए श्रेष्ठ वर की प्राप्ति प्रायः पिता के प्रयत्नों पर निर्भर करती है, शेष सब भाग्य के अधीन है; ऐसा पहले भी देखा गया है और यह अटल सत्य है।
राजा—दुहितुः प्रदानकाले दुःखशीला हि मातरः । तस्माद् देवी तावदाहूयताम् ।
काञ्चुकीयः—यदाज्ञापयति महासेनः ।
(निष्क्रान्तः)
राजा—भोः ! काशिराजदूतसम्प्रेक्षणेन वत्सराजग्रहणार्थं गतं शालङ्कायनं प्रति गता मे बुद्धिः । किं नु खल्वद्यापि वृत्तान्तं न प्रेषयति स ब्राह्मणः ।
२.६
कामं या तस्य सा लीला तत्रैवानुगतं मनः ।
ये त्वस्य सचिवाः सर्वे यत्नमास्थाय ते स्थिताः ॥
Summary AI Granted, his mind is entirely devoted to his favorite pastimes; however, all his ministers remain firm and dedicated in their efforts.
सारांश AI भले ही महाराज का मन अपनी क्रीड़ाओं में लगा हो, किंतु उनके सभी मंत्री पूरी एकाग्रता और विशेष प्रयत्न के साथ अपने कर्तव्यों में लगे हुए हैं।
(ततः प्रविशति देवी सपरिवारा)
देवी—जेदु महासेणो । [जयतु महासेनः ।]
राजा—आस्यताम् ।
देवी—जं महासेणो आणवेदि । [यन्महासेन आज्ञापयति ।]
(उपविशति)
राजा—वासवदत्ता क्व ।
देवी—उत्तराए वेदालिआए सआसे वीणं सिक्खिदुं णारदीअं गआ आसी । [उत्तराया वैतालिक्याः सकाशे वीणां शिक्षितुं नारदीयां गतासीत् ।]
राजा—कथमुत्पन्नोऽस्या गान्धर्वेऽभिलाषः ।
देवी—केण वि किल उद्घादेण कञ्चणमालं वीणाजोग्गं करअन्तिं पेक्खिअ सिक्खिदुकामा आसी । [केनापि किलोद्धातेन काञ्चनमालां वीणायोग्यां कुर्वतीं प्रेक्ष्य शिक्षितुकामासीत् ।]
राजा—सदृशं बाल्यस्य ।
देवी—महासेणं वि किं वि विण्णविदुकामा म्हि । [महासेनमपि किमपि विज्ञापयितुकामास्मि ।]
राजा—किमिति ।
देवी—आअय्यं इच्छामि त्ति । [आचार्यमिच्छामीति ।]
राजा—उपस्थितविवाहकालायाः किमिदानीमाचार्येण । पतिरेवैनां शिक्षयिष्यति ।
देवी—हं एसो दाणि मे दारिआए कालो । [हम् एष इदानीं मे दारिकायाः कालः ।]
राजा—भो ! नित्यं प्रदीयतामित्यस्मानुपरुध्य किमिदानीं सन्तप्यसे ।
देवी—अभिप्पेदं मे पदाणं । विओओ मं सन्तावेदि । अह कस्स उण दिण्णा । [अभिप्रेतं मे प्रदानम् । वियोगो मां सन्तापयति । अथ कस्मै पुनर्दत्ता ।]
राजा—न तावन्निश्चयो गम्यते ।
देवी—इदाणिं पि ण दाव । [इदानीमपि न तावत् ।]
२.७
अदत्तेत्यगता नाम दत्तेति व्यथितं मनः ।
धर्मस्नेहान्तरे न्यस्ता दुःखिताः खलु मातरः ॥
Summary AI If a daughter is not given in marriage, she is as good as lost; if she is given, the heart is pained. Caught between duty and affection, mothers are truly miserable.
सारांश AI पुत्री का दान न करने पर भी वह पराई है और दान करने पर मन व्यथित होता है; धर्म और मोह के बीच फँसी माताएँ वास्तव में बहुत दुखी होती हैं।
राजा—सर्वथा श्वशुरपरिचरणसमर्थे वयसि वर्तते वासवदत्ता । एष चापरः काशिराजोपाध्याय आर्यजैवन्तिरद्य दौत्येन प्राप्तो विलोभयति मां चरित्रेण । (आत्मगतम्) न किञ्चिदाह । अश्रुपूर्वा व्याकुला कथं निश्चयं गमिष्यति । भवतु, निवेदयाम्यस्यै । (प्रकाशम्) श्रूयन्तामस्मत्सम्बन्धप्रयोजनायागता राजानः ।
देवी—किं दाणि वित्थरेण । जहिं दइअ ण सन्तप्पामो, तहिं दीअदु । [किमिदानीं विस्तरेण । यत्र दत्त्वा न सन्तप्यामहे, तत्र दीयताम् ।]
राजा—अहो महान् खलु लीलाभिहितो दुःखविस्तर इदानीं पश्चादुपालम्भनं श्रोतुम् । तस्माद् देवी तावन्निश्चयं गच्छतु । श्रूयताम्,
२.८
अस्मात्सम्बद्धो मागधः काशिराजो
वाङ्गः सौराष्ट्रो मैथिलः शूरसेनः ।
एते नानार्थैर्लोभयन्ते गुणैर्मां
कस्ते वैतेषां पात्रतां याति राजा ॥
Summary AI The kings of Magadha, Kāśī, Vaṅga, Saurāṣṭra, Mithilā, and Śūrasena are all connected to us. They tempt me with various riches and qualities. Which of these kings truly possesses the required worthiness?
सारांश AI मगध, काशिराज, वंग, सौराष्ट्र, मिथिला और शूरसेन के राजा मुझसे संबंध जोड़ना चाहते हैं और विभिन्न गुणों से मुझे लुभाते हैं, किंतु इनमें से कौन वास्तव में सुयोग्य पात्र है?
(प्रविश्य)
काञ्चुकीयः—वत्सराजः ।
राजा—किं वत्सराजः ।
काञ्चुकीयः—प्रसीदतु प्रसीदतु महासेनः । प्रियवचननिवेदनत्वरया क्रमविशेषो नावेक्षितः ।
राजा—प्रियवचनमिति ।
देवी—(उत्थाय) जेदु महासेणो । [जयतु महासेनः ।]
राजा—(सहर्षम्) प्रियवचनपरिहार्या हि देवी । आस्यताम् ।
देवी—जं महासेणो आणवेदि । [यन्महासेन आज्ञापयति ।]
(उपविशति)
राजा—उत्तिष्ठोत्तिष्ठ, स्वैरमभिधीयताम् ।
काञ्चुकीयः—(उत्थाय) तत्रभवतामात्येन शालङ्कायनेन गृहीतो वत्सराजः ।
राजा—(सहर्षम्) किमाह भवान् ।
काञ्चुकीयः—तत्रभवतामात्येन शालङ्कायनेन गृहीतो वत्सराजः ।
राजा—उदयनः ।
काञ्चुकीयः—अथ किम् ।
राजा—शतानीकस्य पुत्रः ।
काञ्चुकीयः—दृढम् ।
राजा—सहस्रानीकस्य नप्ता ।
काञ्चुकीयः—स एव ।
राजा—कौशाम्बीशः ।
काञ्चुकीयः—सुव्यक्तम् ।
राजा—गान्धर्ववित्तकः ।
काञ्चुकीयः—एवं ब्रुवन्ति ।
राजा—वत्सराजो ननु ।
काञ्चुकीयः—अथ किं, वत्सराजः ।
राजा—अथ किम्, वत्सराजः ।
राजा—अथ किमुपरतो यौगन्धरायणः ।
काञ्चुकीयः—न खलु कौशाम्ब्यां किल ।
राजा—यद्येवं, न गृहीतो वत्सराजः ।
काञ्चुकीयः—श्रद्धत्तां महासेनः ।
२.९
न श्रद्दधाम्युदयनग्रहणं त्वयोक्तं
व्यावर्तनं करतलैरिव मन्दरस्य ।
यस्याहवेषु रिपवः कथयन्ति शौर्यं
यौगन्धरायणमतानि च नः स्वनन्ति ॥
Summary AI I do not believe the report of Udayana's capture, which seems as impossible as overturning Mount Mandara with one's palms. His enemies themselves testify to his valor in battle, and the counsel of Yaugandharāyaṇa still resounds for us.
सारांश AI मैं उदयन के बंदी बनाए जाने की बात पर विश्वास नहीं करता, यह मंदराचल पर्वत को हथेलियों से रोकने जैसा असंभव है। युद्ध में शत्रु भी उसके शौर्य और यौगन्धरायण की कूटनीति की प्रशंसा करते हैं।
काञ्चुकीयः—प्रसीदतु महासेनः । वृद्धोऽस्मि ब्राह्मणः खल्वहम् । न महासेनसमीपेऽनृतमभिहितपूर्वम् ।
राजा—आ अस्त्वेतत् । अथ कः प्रियदूतः शालङ्कायनेन प्रेषितः ।
काञ्चुकीयः—न पुरुषः । जवातिशययुक्तेन खररथेन वत्सराजमग्रतः कृत्वा स्वयमेवामात्यः प्राप्तः ।
राजा—एवं प्राप्तः । हन्त भोः ! अद्य विमुक्तसन्नाहा सुखं विश्राम्यत्वक्षौहिणी । अद्यप्रभृति प्रच्छन्नकृतदूतसम्प्रेषणा अशङ्किताः स्थास्यन्ति राजानः । एष समासः---अद्यास्मि महासेनः ।
देवी—किं अमच्चेण आणीदे । [किममात्येनानीतः ।]
राजा—अथ किम् ।
देवी—एदण्णिमित्तं कस्स वि ण दिच्छामो वासवदत्तं । [एतन्निमित्तं कस्मा अपि न दित्सामो वासवदत्ताम् ।]
राजा—युद्धावजितशत्रुः खल्वेष मम । बादरायण ! शालङ्कायनः क्व ।
काञ्चुकीयः—आहितो भद्रद्वारे ।
राजा—गच्छ ! भरतरोहकं ब्रूहि---कुमारविधिविशिष्टेन सत्कारेण वत्सराजमग्रतः कृत्वा प्रवेश्यताममात्य इति ।
काञ्चुकीयः—यदाज्ञापयति महासेनः ।
राजा—एहि तावत् ।
काञ्चुकीयः—अयमस्मि ।
राजा—वत्सराजदर्शने कश्चिन्नोत्सारयितव्यः ।
२.१०
शत्रुं पश्यन्तु मे पौराः श्रुतपूर्वं स्वकर्मभिः ।
सिंहमन्तर्गतामर्षं यज्ञार्थमिव संयतम् ॥
Summary AI Let my citizens behold the enemy, famous for his past deeds, now like a lion restrained for a sacrifice, with his inner fury suppressed.
सारांश AI मेरे नगरवासी उस शत्रु को देखें जिसके कर्मों के बारे में पहले सुना था, जो अब यज्ञ के लिए बांधे गए सिंह के समान अपने भीतर के क्रोध को दबाए हुए बंदी है।
काञ्चुकीयः—यदाज्ञापयति महासेनः ।
(निष्क्रान्तः)
देवी—बहूणि अब्भुदआणि इमस्मिं राअउले अणुभूदाणि । ण खु अहं ईदिसं पीदिजोग्गं महासेणस्स सुमरामि । [बहवोऽभ्युदया अस्मिन् राजकुलेऽनुभूताः । न खल्वहमीदृशं प्रीतियोग्यं महासेनस्य स्मरामि ।]
राजा—अहमप्येतादृशं प्रीतिविशेषं न श्रुतपूर्वं स्मरामि, यथा गृहीतो वत्सराज इति ।
देवी—वच्छराओ णं । [वत्सराजो ननु ।]
राजा—अथ किम् ।
देवी—बहूणि सम्बन्धप्पओअणागदाणि राअउलाणि सुदाणि । एदिणा ण पेसिदपुव्वो पुरुसो । [बहूनि सम्बन्धप्रयोजनागतानि राजकुलानि श्रुतानि । एतेन न प्रेषितपूर्वः पुरुषः ।]
राजा—देवि ! महासेनशब्दमपि न गणयति, किं सम्बन्धमभिलषति ।
देवी—ण गणेदि । किं बालो अपण्डिदो वा । [न गणयति । किं बालः, अपण्डितो वा ।]
राजा—बालः, न त्वपण्डितः ।
देवी—किण्णु हु एणं उस्सेअअदि । [किन्नु खल्वेनमुत्सेकयति ।]
राजा—उत्सेकयत्येनं प्रकाशराजर्षिनामधेयो वेदाक्षरसमवायप्रविष्टो भारतो वंशः । दर्पयत्येनं दायाद्यागतो गान्धर्वो वेदः । विभ्रमयत्येनं वयस्सहजं रूपम् । विस्रम्भयत्येनं कथमप्युत्पन्नोऽस्य पौरानुरागः ।
देवी—अभिलसणीआ वरगुणा । कस्स वामदाए दोसो संवुत्तो । [अभिलषणीया वरगुणाः । कस्य वामतया दोषः संवृत्तः ।]
राजा—देवि ! किमिदानीमस्थाने विस्मितासि । पश्य,
२.११
अग्निः कक्ष इवोत्सृष्टो दहत् कार्त्स्न्येन मेदिनीम् ।
अस्य मे शासनं दीप्तं विषयान्तेऽवसीदति ॥
Summary AI Like a fire released in dry grass that burns the entire earth, my brilliant command, which prevails elsewhere, now falters at the borders of his territory.
सारांश AI सूखे जंगल में छोड़ी गई अग्नि के समान पूरी पृथ्वी को जलाने वाली मेरी प्रज्वलित आज्ञा, अब राज्य की सीमाओं पर जाकर निष्प्रभावी हो रही है।
(प्रविश्य)
काञ्चुकीयः—जयतु महासेनः । यथाज्ञाप्रयुक्तसत्कारं प्रविष्टः शालङ्कायनः ।
काञ्चुकीयः—स तु विज्ञापयति---इदं भरतकुलोपभुक्तं वत्सराजकुले द्रष्टव्यं घोषवती नाम वीणारत्नम् । महासेनः प्रतिग्राहयितव्य इति । (वीणां दर्शयति)
राजा—प्रतिगृहीतं जयमङ्गलम् । (वीणां गृहीत्वा) इयं सा घोषवती नाम यैषा,
२.१२
श्रुतिसुखमधुरा स्वभावरक्ता
करजमुखोल्लिखिताग्रधृष्टतन्त्री ।
ऋषिवचनगतेव मन्त्रविद्या
गजहृदयानि बलाद् वशीकरोति ॥
Summary AI This lute, sweet to the ears and naturally melodious, with its strings vibrated by the tips of nails, forcibly subdues the hearts of elephants like secret lore contained in the words of a sage.
सारांश AI कानों को सुख देने वाली, स्वाभाविक रूप से मधुर और अंगुलियों से बजने वाली वीणा, ऋषियों की वाणी में मन्त्र-विद्या के समान हाथियों के हृदय को बलपूर्वक वश में कर लेती है।
राजा—भो ! समरावजितानां रत्नानामिष्टसम्भोगः प्रीतिमुत्पादयति ।
२.१३
अर्थशास्त्रगुणाग्राही ज्येष्ठो गोपालकः सुतः ।
गान्धर्वद्वेषी व्यायामशाली चाप्यनुपालकः ॥
Summary AI My eldest son, Gopālaka, is a master of the virtues of Arthaśāstra. My other son, Anupālaka, dislikes music and is devoted to physical exercise.
सारांश AI मेरा ज्येष्ठ पुत्र गोपालक अर्थशास्त्र के गुणों को ग्रहण करने वाला है, जबकि छोटा पुत्र पालक संगीत से रुचि न रखने वाला और सदैव शारीरिक व्यायाम में लगा रहने वाला है।
राजा—क्व नु खल्वियं सुन्यस्ता भवेत् । देवि ! वासवदत्ता वीणामुपक्रान्ता ननु ।
देवी—आम । [आम् ।]
राजा—तेन हि इयमस्यै प्रदीयताम् ।
देवी—वीणप्पदाणेण भूओ वि उम्मत्ता विअ चिट्ठदि । [वीणाप्रदानेन भूयोऽप्युन्मत्तेव तिष्ठति ।]
राजा—क्रीडतु क्रीडतु । नैतत् सुलभं श्वशुरकुले । बादरायण ! क्व सा ।
काञ्चुकीयः—अमात्येन सहोपविष्टा ।
राजा—अथ वत्सेष्वधिकृतः ।
काञ्चुकीयः—आहितविनयत्वात् पादयोरङ्गे तस्य बहुप्रहारत्वाच्च स्कन्धवाह्येन शयनीयेन मध्यमगृहे प्रवेशितः ।
राजा—हा धिक्, बहुप्रहारः । एष इदानीं निरुपस्कृतस्य तेजसो दोषः । नृशंसः खल्वस्मिन् काल उपेक्षितवान् । बादरायण ! गच्छ । भरतरोहकं ब्रूहि---क्रियतामस्य व्रणप्रतिकर्मेति ।
काञ्चुकीयः—यदाज्ञापयति महासेनः ।
राजा—अथवा एहि तावत् ।
काञ्चुकीयः—अयमस्मि ।
राजा—अस्य सर्वदर्शनमविमुक्तसत्कारमवगन्तव्यम् । आकारसूचिता अस्य प्रीतयो विज्ञेयाः । अतिक्रान्तविग्रहाश्रिताः कथा न कथयितव्याः । क्षुतादिप्रयोगेष्वाशिषोऽभिधेयाः । कालसंवादिना स्तवेनार्च्यः ।
काञ्चुकीयः—यदाज्ञापयति महासेनः । (निष्क्रम्य प्रविश्य) जयतु महासेनः । पथ्येव कृतव्रणप्रतिकर्मा वत्सराजः । अकालस्तावदिदानीं द्वितीयस्य प्रतिकर्मण इति । मध्याह्नमारोहति दिवाकरः ।
राजा—अथ कस्मिन् प्रदेशे वीरमानी ।
काञ्चुकीयः—मयूरयष्टिमुखे ।
राजा—हा धिक्, अनाश्रयणीयः खल्वयं देशः । आतपप्रातिकूल्यार्थं मणिभूमिकायां प्रवेशयेत्याज्ञापय ।
काञ्चुकीयः—यदाज्ञापयति महासेनः । (निष्क्रम्य प्रविश्य) यदाज्ञप्तं महासेनेन, सर्वमनुष्ठितम् । अमात्यस्तु भरतरोहको महासेनं द्रष्टुमिच्छति ।
राजा—व्यक्तं न रोचते तस्मै वत्सराजसत्क्रिया । अस्यैष नीतेः परिश्रमः । अहमेवैनमनुनयामि ।
देवी—किं सम्बन्धो णिच्चिदो । [किं सम्बन्धो निश्चितः ।]
राजा—न तावन्निश्चयो गम्यते ।
देवी—अलं दाणि तुवरिअ । बाला मे दारिआ । [अलमिदानीं त्वरितुम् । बाला मे दारिका ।]
२.१४
पूर्वं तावद् वैरमस्यावलेपा-
दानीतेऽस्मिन् स्यात् तु मध्यस्थता मे ।
युद्धक्लिष्टं संशयस्थं विपन्नं
श्रुत्वा त्वेनं संशयं चिन्तयामि ॥
Summary AI Previously, there was enmity due to his arrogance, but now that he is captured, I feel indifferent. However, hearing that he is distressed by battle, in danger, or fallen, I am filled with concern and doubt.
सारांश AI पहले उसके अहंकार के कारण उससे शत्रुता थी, किंतु उसे बंदी बनाकर लाए जाने पर मेरा भाव तटस्थ हो गया है। अब उसे युद्ध से पीड़ित और संकट में जानकर मैं उसके विषय में चिंतित हूँ।
(निष्क्रान्तौ)
इति द्वितीयोऽङ्कः ।
॥ इति द्वितीयोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.