यौगन्धरायणः—वसन्तक ! गच्छ भूयः स्वामिनं पश्य । विज्ञाप्यतां च स्वामी---या सा प्रयाणं प्रतीह प्रस्तुताः कथाः, तस्याः श्वः प्रयोगकाल इति । कुतः, स्थानावगाहयवसशय्याभागेष्वाश्रयेष्वुपन्यस्तौषधिव्याजो नलगिरिर्मन्त्रौषधिनियमसम्भृतः पुराणकर्मव्यामोहितः, अनुकूलमारुतमोक्तव्यः सज्जितो धूपः, रोषप्रतिकूलोऽस्य सज्जितः प्रतिगजमदः, शालासन्निकृष्टं मल्लप्रसाधनं गृहमादीपयितुमग्नित्रासित्वाद्वारणानाम्, गजपतिचित्तोद्भ्रमणार्थं देवकुलेषु स्थापिताः शङ्खदुन्दुभयः, तेन नादेन सर्वसाधनपरिगतशरीरेणावश्यं श्वः प्रद्योतेन स्वामी शरणमुपगन्तव्यः । ततः स्वामिना शत्रोरनुमतेनैव बन्धनान्निष्क्रम्य सह व्यापन्नां घोषवतीं हस्तगतां कृत्वा नलगिरिः स्वाधीनः कर्तव्यः । ततो व्यवस्थितास्तदानीं स्वामी नलगिरौ,
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.