ततः पूर्वजैः पूर्वकाय: फणिपतेः, अवरजैरपरकायश्च परिग्राह्य इति न्यायमाचक्षाणेषु दानवेषु, कटाक्षेण कमलाक्षस्य, शासनेन च स्वयंभुवः, समुत्साहिताः परिकल्प्य शिरोभागमासुरं, परिजगृहुर्वालभागमदितिसुताः । अनन्तरमन्तर्भ्रमदचलराजमूल- शिलासंघसंघर्षणकण्डूयननिद्राणकमठराजनिःश्वासपरम्परापरि- हृतपवनाशनलोकदुर्भिक्षं, अभितः प्रकीर्णदुग्धकल्लोलनिपातपरि- पूरितशुद्धजलार्णवं, आमूलपरिभ्रमदमृतसागरैकावर्तपरिभ्रमित- तिमितिमिङ्गिलोद्गीर्णतत्कालनिगीर्णाजीर्णशफरतर्णकाकीर्णं, अत्युच्च -शिखरिशिखरनिष्पतदच्छनिर्झरस्रोतोनिपातपरिधौतचक्रवालशि- लाचक्रं,
अतिरभससमुद्भूतधातुरागसमुद्भाविताकाण्डसन्ध्यासंसू- चितहालाहलोपप्लवं, उत्प्लवमानसागरदुग्धशीकरास्वादसुहितभु- जगराजभोगप्रसारणवेगपतदुत्पतत्सुरासुरस्तोमपर्यवस्थापनव्यग्र- पद्मसंभवं, उभयपार्श्वसंघटितशिलासंघसंघर्षणसुखनिर्मुच्यमान- चिरपरिणामनिर्मलवासुकिनिर्मोकशकलपरिधानसंजिघृक्षानुधाव- प्रमथयूथनिनादमेदुरं, अत्यायासपरिश्रान्तजरदुरगराजसमुद्वा- न्तपरुषविषानलज्वालाकलापदुरापलालाप्रवर्तितहालाहलबीजावापं, आवसथपरिभ्रमणसमुद्विग्नकात्यायनीपरिरम्भसंभ्रमानन्दितचन्द्र- शेखरतया प्रतिक्षणमुपर्युपचीयमानमहातपःसंभारं, आरसातल- परिभ्रमदर्णवावर्तगर्तसंदृश्यमानफणिलोकवृत्तान्ततया प्रशान्त- गृहोदन्तविचारसुस्थपरिजनोरगपरिचरणसंभृतानन्ददन्दशूकेश्वरं, अद्भुतमवलोकयतां, अद्भुततरमद्यापि शृण्वतां, अपर्याप्तमुपन्य -सितुं वाचस्पतेरपि, अशक्यं काव्यशतेनापि वर्णयितुं काव्यस्य, सर्वतो निर्वृतैरपि महर्षिभिः समुत्सृज्य समाधिमालक्ष्यमाणम- पक्ष्मपरिक्षेपं, अनुल्लिखितार्थलाभसमुल्लासेन किंचिदप्यगणित- शरीरक्लेशमायस्यद्भिरपि सुरासुरैरालोकमानः सागरमथनसंरम्भ- माननन्द गोविन्दः ॥
अपि च ।
मग्नतामप्येवं महतोत्साहेन. तेषामपाङ्गयन् शनैः शनैः शक्तिहासं, आप्याययन्वासुकिमम्बरचरानपि स्वतेजसा, त्रिविक्रमः स्वयमपि मथितुमुपचक्रमे ॥
अत्रान्तरे च समन्ततः प्रकीर्यमाणमन्दरशिखरकाननप्रसून- परागपरिचयादिव धूसराणि ददृशिरे दिङ्मुखानि । परि- स्फुटितनिष्ठ्यूताः फणामणय इव वासुकेः प्रतिसूर्या जजृम्भिरे । परितोऽप्यासन्नमकाण्डविप्लवं जगतामवेक्षितुमक्षमेण दयानिधिना महेश्वरेण दृशोर्निमीलनादिव प्रचकाशे पद्मबन्धुरिन्दुश्च नाकाशे । सपर्वतवनद्वीपवसुमतीकम्पसंपन्नचलनसुमेरुशिखरस्थसुरराजनगर- प्रासाददीपिका इव परिपेतुरभितोऽपि तारकाः ॥
तदनु निर्गमिष्यतः कालकूटस्योष्मणा कथितादुदधेरुत्पतन्तः पयःकणा यत्र यत्र निपेतुस्तत्र तत्र पर्वता व्यदीर्यन्त, पादपाः प्रजज्वलुः, पशुपक्षिणो विनेशु', प्रागेव सागरचराणि यादांसि ॥
निःसंख्यस्फुरितस्फुलिङ्गजटिलोत्सङ्गज्वलत्पावक- ज्वालाभङ्गविटङ्कसंकलितधूमस्तोमभीमस्ततः । क्रुध्यत्कालविवृत्तवक्त्रकुहरोन्मुक्ताट्टहासोद्भट- स्फूत्कारध्वनिभीषणः प्रववृते कोऽप्यद्भुतो मारुतः ॥
ततस्तदालीढाः सप्तापि सिन्धवः सप्ताज्यबिन्दव इव जज्वलुरेकयैव ज्वालया। तदग्रसरोष्मतापिता एव भस्मावशेष- तामभजन्त जन्तवः क्षुद्रास्त्रिभुवने । प्रदीपशिखराग्रविन्यस्तेन प्रसूनेनेव धुत्तूरस्य सुधानिधिनैव सुतरां परिमम्ले । प्रक्षिप्तो दूरमस्य मरुतो रंहसा पतगपतिरेव किं पपात, किमुत्पपात, किमतप्यत, किं निरदह्यत, किं मुमूर्छ, किं जीवितं जहाविति न ज्ञायते । उद्वान्तविषानला सममिव प्राणैरुरगपतेरपि तनुर्वर्ध्रिकेव सलिलक्लिन्ना वस्त्रभस्त्रिकेव रिक्तोदरा निःसारतया क्षणादवालम्बत नितम्बतः शैलपतेः ।
इत्यभिधान एव विधौ, अशङ्कितोपनतरसातलातङ्क संघटितसमाधिक्षोभकोपदुर्दर्शकालरुद्रसमुन्निद्रितफालनेत्रसमुत्थित इव महाप्रलयपावकः, प्रतिसर्गनिर्गळदनर्गळशेषविषनिःश्वास- धूमसमाश्लेषजनितविषमषीपिण्ड इव मथनसंक्षोभचलितवडवा- नलसंवलितः, सुन्दरतरमन्दरगिरिकन्दरशयस्वायंभुवशांभवलिङ्ग- चलनसंभावितप्रत्यवाय इव परमदारुणः, कल्पानलदग्धजगदण्ड- पिण्डीकरणप्रसक्तकालचण्डीकरक्षालनोदकमिव क्षीरोदमाकलयन् प्रथमनिःसृतपवनपरिस्पन्दमात्रनिःशेषितेषु भुवनेषु, दग्धव्यानुप- लम्भसंभवक्षुधाप्रसारितरसनासहस्रभीषणेन ज्वालाकलापेन लेलिहान इव वैरिञ्चमपि प्रपञ्चं, अवसादितभुवनकोलाहलो हालाहले निर्गत्य, वारण इव वारणमभिदुद्राव रमारमणम् । तत्क्षणं च परुषविषानलज्वालापरिप्लोषप्रतीकारमन्त्राक्षराङ्गाररूषितानीव वदनानि चतुर्वदनस्य दधिरे दन्ततालुरसनाधरे मालिन्यम् ॥
अथ स्वस्थो यथापुरमम्बुजेक्षणस्तावतापि संरम्भेण तनुगात्रत्राणपर्यवसन्नेन निराशो हालाहलनिग्रहे, निश्चिन्वन्ननितर- माध्यसाधनधौरन्धर्यमन्तकान्तकस्य भाग इति, निर्धारयन्नन्तरेण (??)रदेवताप्रसादमलभ्यतां शिवसाक्षात्कारस्य, चिन्तयन्नपि चिच्छक्तिविभूतिरूपतामात्मनः, परमेण समाधिना समाराध्य नारणीमित्थमस्तावीत्–
(??)रज्जन्मस्थेमभङ्गव्रतमिह जगतां यच्च सर्वान्तरत्वं यत्स्वातन्त्र्यं च मोक्षे श्रुतिषु निगदितं विश्वसाम्राज्यचिह्नम् । यस्याः साहचर्यात्परिणमति परब्रह्मणि श्रीमहेशे तामाद्यामात्मविद्यामहमिति कलयन्सर्वतो निवृतोऽस्मि ॥
अपि च
तत्र च पवित्रतरनदनदीनदीशादितीर्थस्वरूपतासंभावि- क्लेदनैयत्यानुवृत्त्येव सामिविकसितललाटविलोचनधूमरेखासंस्तर(??) नेव कबीलतजाह्नवीकोपपरिपूरितगतयेव च परिणतपाटलि जटावलये प्रतिष्ठिततया सान्ध्यरागसंवलितेनेव सकलशिवज्ञाना- धिगमारम्भसंसूचनायेव द्वितीयाचन्द्रतामुपजग्मुषा, परमज्ञान- रूपतयेव परिहृतकळङ्कानुषङ्गेण कपर्दबन्धनोरगदंष्ट्राङ्कुरेणेव कुटिलनिर्मलेन चन्द्रखण्डेन मण्डितं, जगन्निष्कामताहेतुतयेव निष्कामजनोपासनीयेन पक्ष्मविवरसमुञ्चलदर्चिःस्फुलिङ्गपरिष्वङ्गमात्रादेव निःशेषीभवति जगति निरीक्षितव्यासंभवादिव नित्यनिमीलितेन भसितत्रिपुण्ड्रहारमालिकापद्मरागतरलेनेव ललाटलोचनेन परिहर- न्तमान्तरं तमो भक्तिमतां, कुण्डलितकुण्डलिराजफणामणिमयूखराजिनीराजितेन निसर्गसुन्दरेण गण्डमण्डलेन, श्रुत्युल्लङ्घनभयादिव कर्णान्तपर्यवसितेन निरन्तरकरुणासारवाहिना लोचनयुगलेन, त्रिपुरविजययशोविशदेनेव परापराशेपविद्यात्मना प्रवहतो वचनामृतस्य निष्यन्दनेव मन्दस्मितेन च मदयन्तमिव मनांसि महायोगिनां, कदासौ पूर्येत, कदा चेममारोहेयमिति कुतूहलादुद्धीवमालोकयन्तमिव चूडाचन्द्रमसं उदञ्चिताग्रपादतया किचिदन्यतो जिगमिषन्तमिव प्रकृतिचापलेन वेदमयं मृगमपरपादनियन्त्रणेन नियच्छन्तमात्मन्येव निभृतमेकेन करेण, अतिकठिनाज्ञानपापाणसमुट्ट्ङ्कनायेव गृहीतटङ्कमितरकरेण, निरुपप्लवापवर्गदानसत्रदीक्षिते जयत्यभयंकरे करे निःसारभोगवदान्येन किं मयेति ह्रियेवावङ्मुखेन वराङ्कितेन करारविन्देन परिपूरयन्तमभिमनान्यभिसंधिमतां, नीरूपदिगम्बराच्छादननिर्वेदादिव बहुरूपेण तारक्षवेण चर्मणाभिसंवीतं, चिन्मयेऽतिनिर्मले वपुषि जपाकुसुमपार्श्वगस्फ- टिकोपलन्यायेन मञ्जीरफणिफणामणिप्रभापुञ्जपिञ्जरचरणारविन्दे नातिपचेळिमभाग्ययोगनिर्मलैरन्तःकरणैरिव चरणलग्नैः समाधि योगिनां पञ्चभिरक्षरैः शिवसूत्रस्य पर्यवसितैरिव सव्यापसव्यर पादयोरतिसुन्दरैर्नखैरवतंसयन्तमादिभारतीचिकुरबन्धं, अध्यसीनमधःकृतान्तःकरणवासनाष्टकमास्तीर्णात्मत्रयमहातल्पकल्पत मखिलतत्त्वपथोत्तीर्णमानन्दमयमहाहमासनं,
अन्वास्यमनाखिललोकमातृकया संविदानन्दघनीभावसंपन्नविग्रहया कादम्बिन्येव करुणारसपूर्णया आत्मविद्ययेव सादरमालिङ्गन्त्या समागुणरूपसौन्दर्यशीलया भगवत्या सर्वमङ्गळया, सुखविश्रान्त(?) शरन्मेघमण्डलं, सुधासारघटितमिव कर्पूरपरागसंचयं, अतिकमलमिव स्फटिकाचलं, आदृतघनीभावमिव चन्द्रिकासारं, आ(?)र्त्यपिण्डितमिव परमामृतं, आसेचनकमासेचनकानां,
आश्चर्यमाश्वर्याणां, मङ्गळं मङ्गळानां, आदिमादिमतां, अवधिमवसीदतां आकरं विद्यानां, आलयं दयासौलभ्ययोः, अचिन्तनीयप्रभावमचिन्तनीयमखिललोकस्य, अद्वैतब्रह्मस्वरूपमप्याविष्कृतपञ्चब्रह्मरूपम् ,
अतिदूरमर्वाचां प्रमाणानाम् , अविप्रकर्षगोचरमादिगिसाक्षाच्चकार दाक्षायणीरमणम् ॥
अपि च ।
भव्यैरष्टभिरान्तरैः परिचरन् पुष्पैरहिंसादिभिः कोटीरे परभक्तिभारनमिते कुर्वन्प्रणामाञ्जलिम् । वाग्भिर्गद्गदनिर्गताभिरखिलत्रय्यन्तसैद्धान्तिक- स्रोतःसारमयीभिरस्तुत स तज्ज्योतिः परं ज्योतिषाम् ॥
उमा मूलप्रकृतिः सृष्टेरादि् । ओकारबिन्दौ निखिलप्रपञ्चस्य प्रविलयत् ओंकार. मृष्टेरवधिः । ओमिति उमेति च अभिधनकमेकं अकार-उकार-मकारसंघातात्मकत्वादुभयोः । एकस्मिन् अकार मादिः, अन्यस्मिन् अन्तिम इत्यव भेदः । अकारेण आकारस्यापि ग्रहणं शब्दशास्त्रप्रसिद्धम् रूपमप्युभुयोरेकम् । एकस्या एव कचसततेः वेणीत्वं जटात्वं च भवति ।।
इति स्तुवन्तमिन्दिरारमणमिन्दुशेखरः परिरभ्य बाहुभ्यामिदमाचचक्षे–'भगवन् कमललोचन भवद्दर्शनेन परमामस्मि निर्वृतिं प्राप्तः । आत्मनोऽपि किमधिकं प्रेमपदम् । तथा हि–
किमिच्छसि किं करणीयम्' इत्यभिदधत्युमावल्लभे, रमा वल्लभेनेदमभिदधे-'किमन्यदेष्टव्यम् । इदं किल किमपि विशृङ्खलं दुर्यश इव संभावितस्य सद्यःसमाक्रान्तविध्यण्डमण्डलं दुर्विदग्धस्य पाण्डित्यमिव तृणीकृतब्रह्मादिदैवतं, नीचगतमैश्वर्यमिव निमिषार्धमपि क्षन्तुमक्षमं, बालिशराजोपसेविजीवनमिव प्रतिक्षणं चित्रीयमाणं, पाशुपतावहेलनमिव भस्मीकृतजगत्रयं, क्षीणायुषामामयौल्बण्यमिव विफलीभवत्प्रतीकारप्रकारं, पाषण्ड- मुखमिव परिहरणीयं दर्शनपथात् , प्रतारकसौहार्दमिव परम- दारुणं, विषयनिषेवणमिव व्यामोहकारणं. भवत्पादाब्जवैमुख्यजं दुरितमिव भवत्प्रपदनैकभेषजं, अव्यपदेश्यमनिर्धार्यं, अदूरविप्रकर्षेण शक्यमिव विषमिति व्यपदेष्टुं, अतर्कितोपनतमतीतभवप्रारब्धमिव समाक्रम्य जगत्रयं, संनिपात्य देवासुरान् , प्रक्षोभ्य कमलासनं, परिवृत्य मामपि प्रवृत्तं शनैर्भूषणाम्बरादिषु, भगवत्याः सुधामालिन्याश्चरणस्मरणप्रभावादपसृत्येव किंचिदधरोत्तरयति विश्वमिदम् ॥
इति निर्विण्ण इव निवेदयति गरुडध्वजे, प्रहसन् पार्वतीरमणः, पश्य तावदिति ब्रुवन् , प्रसारयन् दक्षिणं बाहुं, अनुसस्मार हालाहलम् ॥
ततश्च सान्निध्यत एव भगवतश्चन्द्रचूडस्य पल्लवितान्यरण्यानि, पर्यपूर्यन्त सागराः, प्रावर्तन्त सरितः, पस्पन्दिरे मरुतः, प्रचकाशिरे ज्योतींषि, प्रसेदुर्दिशः, प्रशेमुरुत्पाताः, प्रादुरभूवन्मङ्गळानि, अचेतयन्त जन्तवः, यथापुरमबुध्यत वासुकिः उत्तस्थुर्देवासुराः, शनैरुपलभ्य संज्ञामम्भोजसंभवोऽपि संददर्श चन्द्रशेखरम् ॥
॥ इति तुरीयाश्वासः ॥
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.