Loading data... On slow networks this could take a few minutes.
100%
॥ अथ पञ्चमाश्वासः ॥
ततश्च ततः क्षोभ्यमाणात्सजातीयमन्दरसंघर्षमसहमानतया समुत्थित इव मैनाकभूधरः, परिगलत्कलुषमदजलासारपरिजिहीर्षया निर्वासित इव भुवि नैर्मल्यैकमत्यस्थितैरान्तरैर्जन्तुभिः, सलिल एव संततवप्रक्रियाशीलनेन संसक्तैर्दुग्धसागरसरोजनालैरिव वज्रवलयैरावेष्टितचतुर्दन्तः, संततभूभारपरिश्रान्त- दिगन्तदन्तावलराजदृष्टिपथान्निलीय विष्टिग्रहणशङ्कया
विनिर्गतः स्वयमेव बहिरिव केनापि पथा विस्मयनीयविग्रहो महानैरावतो नाम मतङ्गजः प्रादुरभूत् ॥
स च बहिर्निःसरन्नशिक्षिताधोरणनियन्त्रणतया मनागप्यगणयन् देवासुरान् , अमृतोपयोगसुहिततया किमप्यनालोकयन्नुप- नीयमानानिक्षुलताभारानुपह्रियमाणानि कदलीकाण्डानि संभ्रियमाणानि पिप्पलपल्लवानि च, सर्वतः पराममर्श यादांसि । तमित्थमतर्कितोपनिष्क्रान्तमालक्षयन्तः पुनरपि यावदाविलयांबभूवुरर्णवं देवासुराः, तावदुद्वेलहेषाहलहलोन्मेषपोषितकल्लोलकोलाहलः,
स च किंचिदुदञ्चिताग्रपादतया मुहुर्मुहुराधित्सन्निव शिरसि पदमनलसारथेः, अपहसन्निव हेषारवैरवनितलमात्रसंचारशिक्षिता इत्यारट्टजवनायुजान् , सलिलमात्रसंचारशीलिनो मत्स्यमण्डूककर्कटका इवेति वाजिनो वरुणस्य, तैलयन्त्रनियन्त्रिता बलीवर्दा इव संततभ्रमणमात्रगर्विता इति सैन्धवानम्भोजबान्धवस्य, मारुतविजयादेव मनांसि जिगाय । अपि च । बाडबानामाजानसिद्धो मनोजयः कस्तत्र यत्न इति कथयितुकाममिव चलप्रोथतया, वालविक्षेपनिर्धूतमेघमण्डलतया वाहनं प्राचीनमभिभवन्तमिवाखण्डलल्य पश्यन्नुच्चैःश्रवसमनिमेषेण चक्षुषा, पद्मनाभः स्वयमङ्गीकृतहयग्रीवतनुरध्यापनमात्रनिर्वृतः सर्वतोऽपि विस्मयनीये तदीये गतिचातुर्ये सासूय इव बभूव ॥
यावद्यावत्सागरं ते ममन्थुस्तावत्तावत्सोऽर्पयन्नेकमेकम् । भूयो भूयः क्षोभमेवाप देवैदृष्टास्वादास्तत्र किं ते दयन्ते ॥
अमीषां च पुनरखिलभुवनाद्भुतानां किसलयान्येव कनकांशुकानि, जीर्णपर्णान्येव चीनाम्बराणि, मुकुला एव मुक्ताफ्लानि, निर्यासा एव वैडूर्याणि, फलपाका एव पद्मरागाः, परागा एव पटवासाः मधुकरा एव महेन्द्रोपलाः, प्ररोहा एव हारलताः, प्रसवासवा एव परिणामाः सुधारसस्येत्याचक्षते ॥
अवस्थाप्य च तानानुपूर्व्येण परिहृतजरारोगपरिश्रमासु पञ्चेन्द्रियसमुज्जीविनीषु छायासु तेषामायासमवधूय पुनरपि ते ममन्थुरमृतार्णवम् ॥
तदहमेव प्रसाधयन्ननेन भगवतः कपर्दपदमाराधयामि हस्तेन ते परमात्मानम् । अग्रभुजे च विश्वेषामग्रपूजनमेतदुचितमाचरितम् । तदितो यथाभिमतमिमानि वस्तून्युपयुज्यन्तां' इत्यभिधाय तिरोभवति शिलादनन्दने, पुनरपि संचुक्षोभ सारस्वतो गर्भः ॥
ततश्च विद्रुमलता इव वीचीभिराहृताः, तटित इव तत्तत्समयोपनम्रपयोधरोत्संगपरिभ्रष्टाः, कौस्तुभरत्नपाश्चालिका इव कौतूहलाय विनिर्मिताः केनापि, पञ्चशरराज्यलक्ष्मीविभूतीरिव परिगृहीतविग्रहाः, तुल्यवयोरूपविभ्रमाः, तुल्याम्बरविभूषणाः, हंसीरिव मानसादम्भोदविगमे समुत्तरन्तीस्ता बहिरालक्ष्य सर्वेऽपि सुरासुराः विरम्य सागरमथनवृथाक्लेशादुत्तरमप्यमृतमुपेक्ष्य संनिहितेऽधरामृत एव दृष्टिमादधिरे । तापसा अपि तद्दर्शनाभितहृदया मन्त्रजपादपरम्य मणितभेदानधिजिज्ञासांचक्रिरे ।पश्चाग्निमपि विमुच्य पञ्चास्त्रविद्यामेव परमर्षयोऽपि बहुमेनिरे । किं बहुना । श्रुतिन्यायविदोऽपि सूक्ष्मदर्शिनः, तासामालोकन- मग्निष्टोमस्य, द्वारोपसर्पणं द्वादशाहस्य,गाननिषेवणं गवामयनस्य, नाट्यावलोकनं नक्षत्रसत्रस्य, वाङ्मिश्रणं वाजपेयस्य, परिष्वङ्गं पौण्डरीकस्य, वदनास्वादनं वाजिमेधस्य, दन्तक्षतं दाक्षायणयज्ञस्य, नखलेखनं नानाविधानां संस्थानां, कुचमर्दनं कुण्डपायिनामयनस्य, रशनावमर्शनं राजसूयस्य, विपरीतरतं विश्वसृजामयनस्य, चरणताडनं चान्द्रायणस्य, परिभाषणं च पराकसान्त पनयोः फलमाचक्षते ॥
'हन्त भो देवासुराः, किमिदमजानतामिव भवतामपि वैमत्यम् । तुल्ये परिश्रमे, तुल्ये चाभिजने, तुल्येनैव वो भवितव्यं फलेनापि । तदिमाः समुद्रसंभवा अप्सरसो नाम तरुण्यः साधारण्यो भवन्तु भवताम् ॥
इत्यभिहितमात्र एव सादरमाधाय शासनं शिरसि 'किं प्रतिब्रूमो भवच्छासने, किंतु स्वामिने किमप्यनुपहृत्य न युक्तमस्माभिरियदासेवितुं, तदग्रे यदुत्पत्स्यते तद्भवाननुमन्यतां' इति प्रार्थ्यमानः सुरासुरैरन्तरेव कृतस्मितः किंचिदन्वमन्यत रमारमणः ॥
ततश्च समसमयसमुन्मिषत्कनकारविन्दकाननश्रीरिव नयनानन्दसंदायिनी, समभागयोजितशरदिन्दुकन्दलबालारुणप्रवि- लापनचाकचक्यलक्ष्मीरिव चमत्कारकारिणी, सागरावर्तविवर- समुत्थितफणासहस्रमणिप्रभेव फणिराजस्य, काचन कान्तिधोरणी समूर्च्छिता दुग्धकल्लोलेषु सन्ध्येव चन्द्रातपे, सफलीचकार कमलाक्षतां कमलाक्षस्य । तत्र च तालवृन्तचामरताम्बूलकरङ्क- कनकालुकादिपरिकरपाणयो भावानुभावदेवता इव परिणताः शरीरबन्धेन शृङ्गारस्य, रम्भादिरामणीयकमात्रनिर्वर्णननिर्वृतानि लज्जयन्त्यो नयनानि नाकसदां, प्रादुर्बभूवुरग्रतः परिवारशक्तयः कमलालयायाः । तदनु च परमानन्दघनीभावपरिणाममयी मातृकावर्णसंपन्नमकुटादिचरणान्तसर्वाङ्गसुन्दरी पतिदेवता धर्मनियन्त्रणेन पतिमुखलक्ष्यैकपातिनीभिरपि कटाक्षवृत्तिभिः परिसरनिष्यन्दमात्रपरिपोषितजगत्त्रयी, जातजायमानजनिष्यमाणरूपापि जातरूपैकमयीव लक्ष्यमाणा, धर्ममयी धार्मिकेषु, विज्ञानमयी विप्रेषु, पराक्रममयी बाहुजेषु, संपन्मयी राजसु, साहसमयी शरारुषु, कारुण्यमयी भक्तेषु, कामकलामयी परिणेतरि, विजयपताकिका जनार्दनस्य, जीविका मकरध्वजस्य, माता चराचराणां, महिषी नारायणस्य, समालक्ष्यत सौभाग्यदेवता ॥
अपिच कमलासनपदप्रदस्य कमलोपमा मीनकेतनजनकस्य मीनसादृश्यमपि कथयितुमपत्रपन्ते कवयोऽपि तन्नयनस्य । करगतकमलं घ्राणसंसक्तं तत्रत्यमौक्तिकमिव तस्या नासामणिः परिणेमे ॥
ततस्तदिङ्गितवेदिनी मङ्गळदेवता परिवृता विभूतिभिः पश्यत्सु देवासुरेषु, सहस्रादित्यवर्चसा सह कौस्तुभेन सागरादुत्तरन्ती पद्मेन सह चिन्तामणिमपि पाणिना धारयन्ती भुजाद्भुजान्तरं संक्रम्य भूभुजां कृतशिक्षेव भुजान्तरमेव भूवल्लभस्य समारुरोह ॥
भगवति जगज्जननि भक्तवत्सले, परमः पुमानपि भवत्या विनाकृतो नीहार इव भानुमान् , निदाघान्त इव चन्द्रमाः, नानन्दयामास नयनानि मादृशाम् । अधुना तु–
अपि च । यामेव भवतीमियन्तं कालमासेदुषीमरातिभवनानि मणिप्रभामिव महोरगफणागतामालक्ष्य चकितोऽस्मि तामेव सर्वलोकशरण्यस्य भगवतः सरसिजेक्षणस्य वक्षोगतामालक्षयन् सर्वतो निर्वृतोऽस्मि ॥
अज्ञानादतिलालनादपि च ते मातर्मया माद्यता निर्माल्ये परदैवतस्य चलितं यत्किंचिदुच्छृङ्खलम् । तत्क्षन्तव्यमनन्यवेदिनि चिरापन्ने प्रपन्ने मयी- त्याख्यान्तं मघवन्तमादिजननी दृष्ट्या दयामास सा ॥ अपि च पुनरेवं वादिनि मघवति पतन्तीं पश्यन्ती प्रसादविमलां दृशं प्राणवल्लभस्य, चिन्तानुरूपमेव तस्य, चिन्तामणिना तमाह्लादयामास । इत्थमियत्यपि चलति संविधाने, प्रव्यक्ते च पशोरपि पक्षपाते मघवति परमेश्वरस्य, मदान्धाः प्रकृत्यैव मायया च विशिष्य मोहिता महासुराः--किं गतमेतैरतिक्षुद्रैः किंचित्तु वयमनुवर्तमानाः क्षणमपहरिष्यामः सुधामित्यन्तर्निहितेन छद्मना पद्मनाभमनुरुध्यावतस्थिरे ॥
५.२९
ततः संततसंतन्यमानमन्थननिर्बन्धनिर्विण इव, सर्वस्वहरणसमुत्पन्नवैराग्य इव, तनयावियोगतरलान्तःकरण इव, वरुणालयः त्रिजगदगदङ्कारबिरुदाङ्कित्तेन दिव्यौषधिपरिवृतेन करकमलगृहीतकनककुम्भसंभृतामृतगन्धमन्थरगन्धवहस्पन्दमात्र- नियन्त्रितजरामरणक्लेशपाशेन जगदनुजिघृक्षागृहीतेन जनार्दनस्यैव मूर्तिभेदेन भगवता धन्वन्तरिणा सममाविर्भूय भूयसा भक्तिभारेण पुरुषोत्तमं प्रणिपत्य परिष्टुवन्नादाय तस्य करादमृतकलशमग्रे निवेदयन्निदमाचचक्षे---- 'त्वमसि परमं ब्रह्म त्वं नाथ सर्वजनान्तर- स्तव किमवशे रम्यं वस्तु स्थलेषु जलेषु वा । तव किमुपदातव्यं लक्ष्मीपतेः कृपणैर्जनै- स्तदपि दयसे स्वामिन्नस्मासु तत्वनिवेदनात्
अपि च—--
गामश्वं करिणं मणि हिमकरं कन्यास्तरूनद्भुता- नन्नं चामृतमन्ततखिजगतीजीवातुमेतां सुताम् । प्राणाचार्यममुं च ते चरणयोः प्राणैः समं विन्यसन् स्वामिन् कामपि ते प्रसादकणिकां याचे दया चेन्मयि ।'
५.३२
तदनु यथागतं गते सरस्वति, सरस्वतीरमणशतमन्युमुखा बर्हिर्मुखाः प्रतीक्षमाणा निदेशं परमेश्वरस्य परिवार्य केशवमतस्थिरे
दानवास्तु मध्ये निधातव्यममृतकलशं मधुसूदनस्य पुरोनिहितमन्यथाशङ्कमानाः, गणयन्तः पक्षपातं गरुडध्वजस्य, चिन्तयन्तश्चिन्तामणिप्रदानं वैषम्यकारणं, आलोच्य परस्परं, आसीदन्त इव सान्त्वनाय सामाजिकानां, परिवृत्य सुधाकलशं, परिगृह्णन्तः प्रहरणानि, परिमेलयन्तः स्वबान्धवान् , अवतारयामासुरादितः कामपि विवादकथाम् 'भगवन्तौ चक्रायुधचतुर्मुखौ कथमत्र भवितव्यं विभागेन
अथवा न पृच्छामो युवाम्
आमन्त्रिताः स्मो न वयं युवाभ्या- मभ्यर्थिताः स्मो न च सान्त्ववादैः
अस्माभिरादौ समयं बबन्धु- रागत्य ये तान्वयमालपामः
॥ इति पञ्चमाश्वासः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.