सिञ्चन्तीं परमामृतानि दिशि दिश्यप्राकृतैरंशुभिः
खेलन्तीममृतार्णवे मणिमयीमारुह्य नौकां नवाम् ।
स्निग्धापाङ्गतरङ्गशिक्षितभवक्ष्वेआं मुकुन्दश्चिरा
दस्मार्षीदमृतेश्वरीं भगवतीमम्बामहंभावतः ॥

विस्तारः अमृतेश्वरीमहभावतः अस्मार्षीत् । अहं अमृतेश्वरीति ध्यानं । उपास्यापासकश्योरभेदभावना हि ध्यानस्य पराकाष्ठा ॥
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९
सि ञ्च न्तीं मा मृ ता नि दि शि दि श्य प्रा कृ तै रं शु भिः
खे न्ती मृ ता र्ण वे णि यी मा रु ह्य नौ कां वाम्
स्नि ग्धा पा ङ्ग ङ्ग शि क्षि क्ष्वे आं मु कु न्द श्चि रा
स्मा र्षी मृ ते श्व रीं ती म्बा हं भा तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.