Loading data... On slow networks this could take a few minutes.
100%

परिमृष्टाश्च तेन मायाविनोऽपि महासुराः, सुकृतशालिनोऽपि सुपर्वाणः, माहात्म्यनिधयोऽपि महर्षयः, चिरजीविताबलेन परं चिन्मात्रशेषिताः, परिक्षीणया गिरा, परिभ्रमता च लोचनेन, प्राकृता इव पर्यचेष्टन्त धरणीतले ।
ऊष्माणाववहद्विभावसुरुभौ सांसिद्धिकागन्तुकौ सस्यन्दे कथितं शरीरमभितः पाथोमयं पाशिनः ।
सर्वाङ्गीणदृगन्तकन्दलदतिस्फाराश्रुधाराशतैः सेकंसेकमनुक्षणं तु मघवा गात्रं दधौ जीवितम् ॥

विस्तारः विभावसुः सूर्यः । सासिद्धिकागन्तुको उभौ ऊष्माणो अवहत् । सांसिद्धिक ऊष्मा स्वाभाविकस्ताप । आगन्तुक ऊष्मा विषाग्निसंबन्धेन जनितस्तापः। पाशिनः वरुणस्य पाथोमयं शरीरं क्वथित मस्यन्दे(??) । मघवा सर्वाङ्गेषु यानि लोचनानि तेषां काणेभ्य प्रसरन्तीभिरश्रुधाराभिरेव वारिभिः गात्रं सेकं सेकं पुनः पुनः सिक्त्वा जीवितं दधौ ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.