Loading data... On slow networks this could take a few minutes.
100%
॥ अथ द्वितीयाश्वासः ॥
तत्र च वसतां तपोधनानामध्वरहविर्भागमपहरत्सु दूतमुखेन दानवेषु, अकाले वा यष्टुमयज्ञेन वा रहसि प्रदातुमभ्यर्थ नयाप्यसंमन्यमानेषु शास्त्रैकशरणेषु तापसेषु, तप्यमानाः क्षुधा विबुधाः, हुत्वा हवींषि हुतवहे, दत्तानि तेनैव पुनस्तान्युप युञ्जानाः कालं महान्तमतिवाहयांचक्रिरे । अपरे पुनः केचिदतिवेलश्रद्धामात्रशरणानधिगम्य मूर्खान् अमुनैव शरीरेण दिवमारोपयामो भवतः सबान्धवान् , अत्रैवानीय दर्शयिष्यामः सुरसुन्दरीरिति प्रलोभयन्तः, पशुपक्षिसुराकुम्भपायसापूपप्रचु- रानलभन्त महोपहारान् । अपि च पुनरवरूढान् कर्मक्षये दिवः कर्मदेवानावृत्य 'किं कुर्वन्ति दानवाः, किं वदन्त्यस्मान् कथा- प्रसङ्गेषु, किमितिवृत्तमेषामनुमतं पितामहेन, किं वा न तदव- तीर्णमद्यापि तस्य कर्णपथं, किमाहुरसुरमौहूर्तिकाः, कीदृशो भार्गवस्य वृत्तान्तः, कथमास्ते वैजयन्तः, कस्य वशे नन्दनोद्यानं, उद्वान्तश्चतुर्दन्त इति श्रुतं,
उच्चैश्रवसः प्रवृत्तिमेव नोपलभामहे' इत्यनुयुञ्जानाश्चकितचकितमवलोक्य समन्ततः, किंच ब्रह्मलोक गमनोचितान्महर्षीन्मुमूर्षतः परीत्य परिहरन्तः प्रायणक्लेशमपि वरदानैः, निवेदयत प्रसङ्गेन नः कष्टामिमां दशां भगवति पितामहे, न विस्मरतास्मदभ्यर्थनामध्यात्मविचारव्यासङ्गेनेत्युद्बो- धयन्तः, स्वयमस्वप्नतया स्वप्नदृशस्तपोधनान् परिपृच्छन्तः पर्य- वसानं मुनिशापस्य,
निन्दन्तः स्वानि जन्मानि, निःश्वसन्तो दीर्घमुष्णं च मुहुर्मुहुः, वलाहकमिव चालकाः, वाचस्पतेरागमन- माकाङ्क्षन्तश्विरमवतस्थिरे ॥
'दिष्टया कुशलिनो श्चिरादद्राक्षम् । दिष्टचा चोत्तीर्णप्रायोऽयमापदर्णवः । दिष्ट्या च दुर्लभमिदं तपोवनमहो भवद्भिरासादितम् । वाराणसीव भारते वर्षे दयितं गौरीदयितस्य परमभिदमेवायतनमिळावृते । आरसातलादा च शान्यतीतकला भवनालान्ति (??) सहन्ति स्थानानि सर्वागमविदितानि परश्शतानि भवानीपतेः ।
परन्तु मन्दर इव तस्य दृशां न किंचन सुन्दरमन्यदायतनम् । अन्यत्र पञ्चतपसोऽपि मुनेरावसथेषु शांभवेषु स्वैरचारी विशिष्यत इति श्रुतमेव भावद्भिरपि वृद्धमुखात्।
अमृतप्राप्तिहेतुश्चायमस्मादृशामिव भवादृशामपि शैलराजः ।
किं बहुना-
इति प्रवृत्तया भाविमहासंविधानलभ्ययापि भाग्यवशादधुनैव स्वतो लब्धया सुधयेक वाचा वाचस्पतेराप्यायितः सुरपतिरिदमाचचक्षे--- 'अद्यैतत्पावनमजनि तपोवनं, अद्य नस्तपांसि परिपेचिरे, प्रशेमुरद्य नः कलुषाणि, पर्युपास्थिषत मङ्गलानि, परथा कथं भवदीयानां पात्रीभवेम शासनाक्षराणाम् ॥
कि बहुना । अब भवत्संभावनासंपादितस्यानन्दस्य परं पारमपश्यन्तो वयमस्मदानन्दादनेकशतगुणं भवदानन्दमुपपा- दयन्ती भगवतीं श्रुतिमपि न विस्रंम्भामहे ।
आजानतो हि राजानः कदाचिदाक्रामन्ति परानाक्रम्यन्ते च तैरिति चक्रनेमिक्रमः सर्वजनीन एव । तदपि भवदीया जयन्येव न जीयन्त इत्यै कान्त्यमनुसंदधतो वयमियदपत्रपामहे व्यथामहे च । भवतः पुनरीषत्करोऽस्मदनुग्रहः संकल्पमानसाधनस्य । यथा हि भवज्जातीया एव भूमिचरान्दिवमारोपयितुं, दिविचरान्भुवमवरो पयितुं, आस्वादयितुं सुरापगां, आचमितुं सप्तसागरान् , विफलयितुं महास्त्राणि, विष्टम्मयितुं विश्वंभरमपि प्रगल्भन्ते,
तथा श्रुतिशतप्रतिपन्नयाथात्म्ये भवतो माहात्म्ये दण्डापूपि कान्यायघण्टाघोष एव नः शरणम् । तदलं पल्लवितैर्वचोभिः अनुगृहाण स्वयमस्मान् , अस्ति यदि भक्तव्यसनानवलो कनमंकल्पः अथ साजात्याभिमानेन दुर्वासस एव वचनं सत्यापयितुमध्यवसायस्तदेहि, यत्र निनीषसि तत्र नेष्यामहे. यनानुकम्पयिष्यसि तेनानुकम्प्यामहे, सर्वथा न्यस्तात्मानो वयं भवच्चरणे । कि करचरणे कदाचिदस्ति जिज्ञासा कीदृशस्तदभि प्राय इति न यदि किकरजनेऽपि मादृशि तथेति मन्तव्यं' इति कृतव्यवसायस्य सुत्राम्णो वचसि चित्रीयमाणश्चित्रशिखण्डिजः सममाखण्डलादिभिः सत्यलोकमभिप्रतस्थे।
अमराश्च तमनुवर्तमानाः, वर्तमानाः पथि वैमानिकानां, दैत्यदानवयातुधानाध्यासितानि सिद्धचारणविद्याधराद्यावसथानि विलङ्घ्य, ततोऽतिदूरादुत्सन्नकिन्नरीगानचातुर्यम् , उपशान्तगान्धर्वतौर्यमौर्खर्यम् , असंभावितकर्मदेवसंमर्द, अनाशंकनीयब्रह्मर्षिसंचारसंकथं, अतिनीचरक्षः पिशाचमदिरागण्डूषदूषितमन्दाकिनीतीरतरुपण्डगूढचर देवर्षिमण्डलम् , आखण्डलनगरोपशल्यमन्तःकरणशल्यमालोकयन्तः, पुरा हंसावतंसितैः सर्वगामिभिरप्सरोजनतौर्यत्रिकालंकृतैर्विमानैरतिवाह्यमानतयाऽगृह्यमा-णतत्तत्प्रदेशसौन्दर्यमगृह्यमाणद्राधिमाणमध्वानमधुना पद्भ्यामेवाक्रम्यमाणतया गृहीतविपरीतमतिक्रामंतः, पदे पदे श्राम्यन्तः पथि, पथिकजनसाधारणमपि तत्तत्पदेष्वातिथ्यं गूढसंचारवशादलभमानाः, दानवसेनागतागतोचितान् कथंचिदतिलङ्घय कानपि कक्ष्याभेदान्दिवः, तपोभिरपि दुरापं तपोलोकसमीपमापेदिरे । प्रविष्टमात्राश्च ते परिहृतरजस्तमोगन्धानुबन्धतया परिणतसत्त्वैकसारेषु तत्रत्य वस्तुषु महीचरा इव महेन्द्रभोगेष्वदृष्टचरं विशेषमालक्षयन्तो विसिष्मियिरे । अपिच पुनरात्मविज्ञाननिरस्तावरणतया नि:सीमविकसदकृत्रिमज्योतिषामधिकारमलक्षपणाय केवलमनुत्तरं योगैश्वर्यमनुभवतामत्रभवतां सनकसनन्दनसनत्कुमारादिमहा योगिनां, मूकेष्विव वाग्मिनां, मूर्खेष्विव बुद्धिमतां, अन्धेष्विव चक्षुष्मतां, अधनेष्विव महेश्वराणां, कीटेष्विव सरीसृपाणां, सरीसृपेष्विव चतुष्पदां, चतुष्पात्स्विव मानवानां, मानवेष्विव महीभृतां, महीभृत्स्विव मरुतां, मरुत्स्विव मरुत्वतो, मरुत्वत्यपि पतन्तीमवज्ञामुकुळितां दृशमवलोकयन्तः, शृण्वन्तश्च तेषामेव 'हन्त वराकः शतमन्युर्नामायमेव परितोष्य यः शतेनाश्वमेधैरपि भगवन्तमिन्दुशेखरं प्रार्थयामास दानवामिषं स्वाराज्यम् । पश्यत पश्यत कुबेरमिमं पशुपाशविमोचिना पाशुपतव्रतेन समाराध्य परमात्मानं पखासि ममेत्यनुगृहीतोऽपि यः पिशाच इव धनपालतां वव्रे । किं बहुना-आत्मभूतोऽप्ययमष्टमूर्तेर्भगवतो वैश्वानरो विफलीकृत्य विवेकं, उपास्य चिरतरं कालमुमारमणमपि, आसाद्य हव्यवाहतामन्नहरोऽस्मि देवानामित्यभिमन्यते कृतकृत्य मात्मानम् । हन्त चिरादिमान् देवपशूनद्राक्ष्म ॥
इत्यादीनि परिहासवचांसि, पश्यन्तस्तरतमभावमैश्वर्येषु, परित्यजन्तः स्वर्गाधिराज्यदुर्मदं, अपत्रपानष्टदृष्टयः स्वयमाधि पत्यादस्मदीयात्र भिक्षाटनं ज्याय इति मेनिरे ॥
प्रस्थिताश्च ते परस्परालापेषु, अथर्वशिखाप्रवर्तकनामा- ङ्गिरसाख्ययोगरहस्यप्रवर्तकतामृग्यजुषोद्धृष्टप्रभावतामप्यनुस्मृत्य, प्रशंसन्तो ब्रह्मपुत्रं भगवन्तं तमङ्गिरसं, प्रशसन्तश्च गूढचर्यारतं महर्षि संवर्तशिवाचार्यं मरुत्तानुग्रहवागणमीनिपेवणव्रताद्युपा- ख्यानेन, शंसन्तश्च संवर्वानुजमाङ्गिरस सर्वतन्त्रेषु प्रवचनपार- दर्शनप्रबन्धनिर्माणप्रतिभाव्यवहारकौशलैः, परिहरन्तश्च लोका- यतिकतन्त्रतीर्थकरताप्रयुक्तमपकर्षमपि बाह्यतन्त्रप्रवर्तकपरमेश्वर- निदर्शनोपदर्शनेन, समागम्य यथाविधि संनताश्च स्वगुराविव सह शिष्यैः सुराचार्य सनत्कुमारसमीपमानिन्यिरे ॥
अपि चाद्राक्षुरविदूर एव ते निरस्तरजस्तमोव्यतिकरतया निर्मलसत्त्वप्रकाशराशिमिव, निष्कलङ्कशशाङ्केष्टकासंघसंघटित- मिव, निरन्तरज्वलदबिन्धनज्वालापरिवर्तपिण्डितदुग्धमागरोर्मि निर्मितमिव, चिरनिपातघनीभूतशारदाशिरश्चन्द्रचन्द्रिकाविकीर्ण नीहारसारलाधितमिव, त्रैविक्रमचाणाक्रमाविद्धविध्यण्डकपाल- निरर्गळनिर्गळदळकनन्दानिपानधौतमिव, विमलभास्वरप्रभाव- भासितनमोविभागं, अपास्तकलङ्कानुषङ्गतयेव धूमादिमार्गचंक्रम -पङ्किलचरणपशुजनानाक्रमणीयं, अशेषभुवनसर्गावशेषसारैरिव विलक्षणैः शब्दादिभिर्विपयैरुपस्कृतं, अनुश्रवमयै, प्राकारैगभ्युद- यिकोपासनामयैर्गोपुरैरात्मोपासनामयीभिः कक्ष्याभिः प्रणवमयेन चास्थानमण्डपेन परिशोभितं, निजनिजकार्यनिवेदनावसर- प्रतीक्षितत्तल्लोकाधिकारिकारितसंमर्दबहिर्द्वारवितर्दिकाभागं, आग- न्तुकगन्धर्वकिन्नराप्सरस्समारब्धतौर्यत्रिकमौखर्यपूरितप्रथमकक्ष्यं, अनभिसंधिमत्कर्मयोगनिर्मलकर्मन्दिवृन्दपरिकर्मितद्वितीयकक्ष्यम् , अतिगहनन्यायसाङ्ख्ययोगादिदर्शनतत्त्वावमर्शव्यसनकर्शितकणा- दकपिलपतञ्जलिप्रमुखविद्वदुद्दामजल्पकथाघोषभूषिततृतीयकक्ष्यं, अतिविचित्रतरत्रयीशिखरोपपादितोपासनाभेदवासनासनाथमुनि- यूथदर्शिताश्चर्यतुर्यकक्ष्यम् , अतिरहस्यवैश्वानरदहरादिविद्यापरि- चयानवद्यमहर्षिदर्शितोपासनाप्रपञ्चपञ्चमकक्ष्यं, अतिदूरविसृष्ट- दृष्टानुश्रविकविषयाभिषरिरंसागन्धपरमहंसावतंसितषष्ठकक्ष्यम् , अतिचातुर्यपर्यवस्थापितानुश्रवतात्पर्यपर्यालोचनापनीतविपरीता- न्वयशङ्काकळङ्कनिरङ्कुशकुशलजनालंकृतसप्तमकक्ष्यं, प्रसंख्यान -परासंख्यभृग्वाङ्गिरोवसिष्ठादिगरिष्ठाधिकारिकमुनिमण्डलमण्डिता- स्थानमण्डपं, अपदं विपदां, अगोचरं वाचां, अनाशङ्कनीयमर्वाचां, अगम्यमाचारमात्रशरणैः, असाध्यमध्वरैः, अलभ्यमधिकैरपि तपोविपाकैः, दुरारोहं महादानैः, दुरवगाहमाहवसाहसैः, असंभावनीयं मनसापि स्वायंभुवं भवनम् ॥
अपि च–
२.११
प्रविशन्तश्च तमालयं, 'ननु प्रातरागतस्य पुरुहूतनान्नो दिवस्पतेः कतितमः पुरन्दरो नामाय' इति पृच्छ्यमाना दौवारिकैर्निर्जरा बलवदन्तर्ललज्जिरे
अपि च गच्छतामन्तरेषामालक्ष्य गतिमतिमलीमसां, अधिगन्तव्याधिगमेन निर्वृताः सर्वतोऽपि महर्षयः कतिचित् 'अतिचिरं कालमहो खलु वयमप्यमीषां सामीप्यनारूप्यतायुज्यसालोक्यसिद्धिमाशासाना नानाविधानि तपांसि वृथा चकृम' इति विगर्हमाणाः स्वमात्मानं लज्जितानमरान् भूयोऽपि लज्जयांचक्रिरे ।
अथ भगवानाङ्गिरसो देवर्षिभिः परिष्वज्यमानः पदे पदे नारदादिभिः, प्रत्युद्गम्यमानो विद्वद्भिः पतञ्जलिप्रमुखेः, अभिवाद्यमान: सिद्धविद्याधरैः, आनीयमानः सबहुमानमाप्तभृत्यैः परमेष्ठिनः, परिवृतो देवैः परमाश्चर्यनिर्भरैः, प्रकृतिगुणैरिव परस्परयोगवियोगपरिणम -द्भेदैरुच्चावचैर्मणिभिरुपरञ्जितं, उपर्यास्तीर्णहंसतूलिकातल्पकल्पितमहार्होपबर्ह, अहिसानृशंस्यकोमळिमावर्जितशमदमाभोगमन्तःकरणमिव महायोगिनां, ताळवृन्तचामरताम्बूलकरण्डकळाचिकाद्युपचारचतुरवरवर्णिनीजन- न्यस्तवामहस्तवेष्टिततया व्याकोचाष्टदळात्मिकां व्यञ्जयदिव कमलासनतां त्रिभङ्गीसमुन्नततया त्रिवर्गातीतमिव सर्वतोभद्रं भद्रासनमधितिष्ठन्तं, समसमयसमुद्यदादित्यसहस्रभास्वरैरर्केन्दुविद्यु- दनलरूपचतुस्तेजः समुत्तम्भनायेव चतुर्दिक्षु निर्जिहानस्तेजोभिर- वलुम्पन्तमिव दिव्यमपि चक्षुर्दिवौकसां, संततव्यवहारसंसक्त चतुरागमाक्षरप्रेक्षणीयदन्तचन्द्रिकाविकासपरिहृतसंसारशार्वरैरा - यतापाङ्गरिङ्गदभङ्गुरकरुणातरङ्गमालाभिराचार्यकाभिषेकमादधानैरि-व योगिनामध्यात्मविद्यासु, चतुर्भिरिवान्तःपुरैर्दयितानां चतसॄणामपि श्रुतीनां, आननपङ्कजैरनुगृह्णन्तमभितोऽपि महाशयान् , त्रैयम्बकमकुटावलोकनावलम्बितहंसदशार्जितेन मृणालवलयेनेव मृदुना शुचिना च सूत्रमयेनोपबीतेन सवचयन्तमिव सूत्रात्मकतामात्मनः, शस्त्रास्त्रविद्याकूपारपारीणक्षत्रियवर्ग, (??)गनिर्वृततयेव शस्त्रग्रहपराड्मुखेन प्रकृत्यादिपृथिव्यन्तपञ्चविंशतितत्त्वपरिवर्तनमात्रमेव व्यापार इति प्रदर्शयतेव पाणिना दक्षिणेन परिवर्तयन्तगक्षमालिकां, अहर्मुग्वेषु प्रथममपाव(??) स्रष्टव्यतामवधार्य धार्यमाणेनेव स्फटिकमयेन कमण्डलुना परिष्कृतेतरकरपल्लवं, असकृदधीता -ध्यापितनिखिलनिगमान्तसिद्धान्तपान्थसनकसनन्दनादिमहादेशि -कोद्भावितदुर्भेदसंशयच्छेदसंवादजिज्ञासया मुहुर्मुहुरवलोकयन्त -मन्तिकगतां वाग्देवतां, आचार्यमाचार्याणां, अधिगन्तव्यमधि -गन्तव्यानां, परमानन्दतुन्दिलमपि प्रपन्नानुग्रहैकव्यमनिनं, समष्टिं भूतग्रामस्य, साधारणं पितरमखिललोकस्य, विश्रान्तिभूमिं विद्याफलानां, विरामपदं वाग्विभूतीनां, दूरं दुराशयानां, अदूरमात्मवेदिनां, अधिगम्य भगवन्त पितामहं, अत्यद्भुतसभा- सभानाथसंदर्शनजडीकृतो वाचस्पतिरपि भगवान् वाग्देवता -वलोकनसंपन्नभयकम्पसंभ्रमस्तम्भितवाङ्मुखः क्षणमवाड्मुखश्च तदीयदिव्यतेजःप्रतिहतदृष्टितया यावदास्त स्तब्ध इव, तावदनु ग्रहमय्या दृशा जगन्निधेः, आगच्छ वत्सेत्यमृतासारकिरा गिरा च गिरां देव्या निर्व्याजमाख्यायितः, समाधाय कथंचिदान्तरं करणं, अनुस्मरन् प्रणवं, आवर्तयन् ब्रह्मसूक्तानि तत्तदागमोदितानि, प्रागेव नम्रोऽपि भक्तिभारेण प्रणम्य शतशः सहामरैः प्रसादादेव देवदेवस्य प्रारभत किंचिदेवमभिधातुम् अगन्तव्यं तर्कैरनधिगमनीयं क्रतुशतै- रनासाधं दानैरनुपसरणीयं च तपसा
भवन्तं पश्यन्तः शुचमभिभवन्तं प्रणमतां कृतार्था जाताः स्मः पुनरपि कृतार्थाः पुनरपि ॥
अथाप्यनुयोगाज्ञानिर्वर्तनाय किंचिदावेद्यते । योऽसावग्रतो भवतः परिणाम इव करुणायाः, परिपाक इव शमदमोपरमाणां, अधितिष्ठति शमवतामग्रासनं दुर्वासाः, अयमेव सर्वासां निदानमस्मदापदाम् ॥
अथ यद्भवतैव कल्पितमध्वरहविर्जीवनममर्त्यनामपहृते तस्मिन्नसुरैः, असंभाविते च यादाकादाचित्के दाने द्विजन्मनां, अशिक्षिते च भौमवदन्नसाधनव्यसने, भवत्प्रसादादवधूय सौव- र्गराज्यसिसाधयिषां, अपहाय दिव्यभोगेषु कौतूहलं, अन्नायैव स्पृहयमाणा निरन्तरं, अनिमिषतया श्रमावर्जितमूर्छाः स्वापमप्यलभमानाः सुलभमाना दिवौकसः सूक्ष्मतरं व्युदपद्यन्त दुर्भगानामन्नार्थिनामर्थनाभङ्गमन्दाक्षसंधुक्षितान्तरज्वालाकलापसंभृतेषु संभ्रमेषु मानवानाम् । किं बहुना--- यदियजीवितमेतैस्तदायुषा कल्पितेन भवतैव ॥
आस्तामिदम् ।
इत्यावेद्य विरमत्याङ्गिरसे, विनमत्सु च युगपदमर्त्येषु, प्रसादयन् सर्वानिदमाह पद्मसंभवः । विदितवेदितव्यैर्भवद्भिरित्थं न विप्रतिपत्तव्यं दुर्वाससि । यतः परिणाम एष करुणायास्तत एव महेन्द्रमनुजग्राह तनीयसा शापेन । परथा कथमतिवाहनीयमिन्द्रेण परःसहस्रैरपि वासरैर्निखिलजगन्मातुरम्बिकाया निर्माल्य- समुल्लङ्घनप्रसूतमिदं दुरितम् । तदस्मिन्महत्यपराधे यावदक्षपि- तमेतदेनस्तावदनुस्मरणमपि अवतामपराधो महानिति चकितै- रस्माभिरेतावदुदासितम् । महदपीदं दुरितं मन्दरपरिसरावासेन परिहृतमेव सवासनं भवताम् । तदपि जगज्जननीचरणापराध- संसर्गादधुनापि शङ्कमानेरस्माभिरन्य एवोपायः समुल्लिखितो भवदनुग्रहे । नारायणीप्रमादतिरस्कारजोऽयमपराधो नारायणी- यप्रसादपुरस्कारेण समाधेय इति ।
तथाहि
तृतीयावतारश्वेततानुचिकीर्षया स्वयमपि श्वेतीभवद्भिरिव भगवतः प्राथमिकावतारजातीयैः क्षीराहारपरिणाम निर्मलैर्मत्स्यकूमैः परिकर्मितं, शार्ङ्गधरं द्रष्टुं सागच्छेदपि जा(??) चन्द्रशेखर इति संभावनया लज्जीकृतैः कैलासैरिव पयस्तरङ्ग परिपूरितैरन्तर्गतैर्गिरिभिरभिशोभिनं, कालचक्रमिव कर्कटमकर मीनकरम्बित, गङ्गातीर्थमिव गर्भस्थानेकमठराजिविरजित पाणिनीयसूत्रमिव परस्मैपदप्रतिपादकं, आत्मतत्त्वमिवानिर्व- चनीयगुणप्रपञ्चं, कैलासशिखरमिव शैवलक्षणलक्षितद्विजपण्ड- मण्डितं. निदाघभास्करमिव नितान्तमुत्तरङ्गत्वातिभीपणं,
समष्टिमिव क्षीरसर्गस्य, समवायमिव नैर्मल्यस्य, चन्द्रतारकादि- निर्मलवस्तुवर्गनिर्माणकौतुकिना विधिना विलाप्य निषिक्तमिव भुवि रजताचलं,क्षौमावकुण्ठनमिव क्षमायाः, पद्मनाभशय- नागारपर्यन्तकुट्टिममिव स्फाटिकशिलाचितं, अनास्पदं कविगिरां, आश्चर्यमाश्चर्याणां, आतिहरं चक्षुषोः, आनन्दमन्तःकरणस्य, दुरासदमनाराधितनारायणचरणारविन्दानां दुग्धोदं नाम रत्नाकरम् ॥
अपि च—
अपश्यन्नपि मध्यतस्तस्य किंचिदन्तर्निमग्नपुराणभूदार- दंष्ट्रादण्डक्षोभितपयःपूरसमुद्धृतमिव नवनीतपिण्डं, अभितश्चलदु- च्छङ्खवलतिमितिमिङ्गिलकुलवालविलोडनोद्भुतमारुतोद्भूतपुञ्जीकृ-त मिव फेनमण्डलं, एकतः प्रतिपर्वनिर्मुच्यमानपङ्कजनाभशयनोरगनिर्मोकराशिमिव कालपरिपाकलब्धमृद्भावनिर्मलं, नविबिन्धमिव वसुन्धरादुकूलस्य, कल्पान्तरीयमन्दरवेष्टनक्लेशजनितया मूर्च्छया पतितस्य वासुकेर्जरतो वलयितमिव भोगमण्डलमप्रतिरूपमन्तरीपम् ॥
अपि च—
॥ इति द्वितीयाश्वासः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.