यदेतद्वामाङ्गं घनजघनकेशस्तनभरं
कदाचित्तच्छंभोर्भवति कमलाकौस्तुभधरम् ।
जगन्मातर्येवं यदपचरितं तन्मघवता
जगन्माता देवः प्रभवति स एव क्षपयितुम् ॥

विस्तारः शंभोः वामाङ्गं गारी । सैव श्रीविष्णुः । यदाहुः- एकापि शक्तिः परमेश्वरस्य भिन्ना चतुर्धा विनियोगकाले । भोगे भवानी समरेषु दुर्गा कोपे तु काठीत्यवने तु विष्णुः ॥ तदागच्छत क्षीरसागरं, दर्शयिष्यामो भगवन्तम्' इति वदन्नासनादुत्थायान्तर्दधे भगवानब्जसंभवः । अथ कथमप्यमर्त्यपतयः परिहत्य भयं गुरुकरुणाविशेषपरिणामकृताभ्युदयाः । अखिलजनुष्मदाशयगुहाशवमप्युदधौ शयितमिमे समेतुमुदयुञ्जत शार्ङ्गधरम् ॥ २१ ॥ किंच- पथि ध्वजं यं गरुडध्वजस्य प्रस्थाय यान्तो ददृशुर्दिगीशाः । तमेव सद्यस्तदनुग्रहस्य भविष्यतोऽपि ध्वजमग्रहीषुः ॥ २२ ॥ अवतरन्तश्च ते सत्यलोकादनेकसहस्रयोजनमपि पन्थानमतिलङ्घितं गणयन्तो गव्यूतिमात्रमिव, गुणयन्तो भाषितानि चतुर्मुखस्य, गुरुणाकृष्यमाणतयेव झटित्युपनिपत्य विशश्रमुरवि- श्रान्तपरिभ्रमदभ्रमारुतसंपातविनीतपथिकव्यथे जलदपथे । अद्राक्षुरपि तत्र ते निद्राणपुराणपुरुषनिद्राभङ्गापराधमाशङ्क्य संतायन्तमिव विद्रुमकाण्डवेत्रदण्डैरनिवार्यमौखर्यसमुल्लासदुर्ललितानि- कल्लोलमण्डलानि, निरिन्धनज्वलदबिन्धनज्वालासंबन्धान्निष्य- न्दमानमिव वीचीभिरभितोऽपि, सद्यःसमास्वादितशुद्धदुग्धपूर- पूरितगर्भनिर्भरविशदनीरदनिकरसंछन्नतया संपन्नमिव मण्डेन, चिरसंभृततया संभावितपयोविकारपरिजीहीर्पुणा ततस्ततः क्षिप्ताभिरम्बुजसंभवेन समूलाभिरिवौषधीभिः शैवालमञ्जरीभि- रभिशोभितं, चिरपरिचितरोघरसास्वादसुखित्चानकपोनसा(??) वज्ञनिष्ठ्यूतचञ्चूपुटनिपतदितरमेघशीकरं, गोविन्दचरणारबिन्द संदर्शनायातविबुधससद्विमानहंसविविच्यानमानसर्वतः(??) सहस्रनीरकृताहारलब्धसमिन्धनबलवदविन्धनानलं, सायंप्राति कोल्लामपल्लवितकल्लोलजालवल्लितवेलागिरिविर(??) संचारलब्धदुग्धाभिषेकमुहूर्तविमलीकृतवन्याद्विपतया परिचिदन्तमिव चिरादैरावतसर्गचातुरीं, क्षीरैकनिधानतया पर्वकालाबाहनप्रसक्तपर(??) मर्षिजनप्रस्तुताघमर्षणसूक्तगोचर- क्षीरपदोहानूहविचारकोलाहलाभिभूतवीचीघोषं, [[पर्वकालेति ॥ अधमर्षणसूक्ते यदपा क्रूरमित्यत्र अपदस्थाने क्षीरपदः कहो न वेति विवदमानाः परमर्षयो दृष्टाः ॥
छन्दः शिखरिणी [१७: यमनसभलग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७
दे द्वा मा ङ्गं के स्त रं
दा चि त्त च्छं भो र्भ ति ला कौ स्तु रम्
न्मा र्ये वं रि तं न्म ता
न्मा ता दे वः प्र ति क्ष यि तुम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.