किच भूतग्राममिमं चतुर्विधमहो निर्मासि यल्लीलया
यच्च व्याकुरुषे निरन्तरमिभाः साङ्गाश्चतस्रः श्रुतीः ।
चातुर्यं कथमीदृगित्यपगता शङ्का समस्तापि न
श्चातुर्यं भवतो युजेष्वपि मुखेष्वद्य स्वयं पश्यताम् ॥

विस्तारः जरायुजाण्डजस्वेदजोद्भिजलक्षणाश्चतुर्विधो भूतग्रामः । चातुर्यं चतुरत्वं चतुष्व(??) च ॥ बृहस्पतिशब्दः छन्दोगश्रुतावेवं व्युत्पादितः - वाग्धि बृहती तस्या एष पतिर्बृहस्पतिः ॥
छन्दः शार्दूलविक्रीडितम् [१९: मसजसततग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१
कि भू ग्रा मि मं तु र्वि हो नि र्मा सि ल्ली या
च्च व्या कु रु षे नि न्त मि भाः सा ङ्गा श्च स्रः श्रु तीः
चा तु र्यं मी दृ गि त्य ता ङ्का स्ता पि
श्चा तु र्यं तो यु जे ष्व पि मु खे ष्व द्य स्व यं श्य ताम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.