तत उत्थाय राजा मौहूर्तिकावेदितलग्ने प्रस्थितः । अथ प्रहितप्रणिधिश्चरो हिरण्यगर्भम् आगत्य प्रणम्योवाच्देव ! समागतप्रायो राजा चित्रवर्णः । सम्प्रति मलयपर्वताधित्यकायां समावासितकटको वर्तते । दुर्गशोधनं प्रतिक्षणम् अनुसन्धातव्यम् । यतोसौ गृध्रो महामन्त्री । किं च केनचित् सह तस्य विश्वासकथाप्रसङ्गेनेतद् इङ्गितम् अवगतं मया । यत्नेन कोप्यस्मद्दुर्गे प्राग् एव नियुक्तः । चक्रवाको ब्रूतेदेव ! काक एवासौ सम्भवति । राजाह्न कदाचिद् एतत् । यद्य् एवं तदा कथं तेन शुकस्याभिभवोद्योगः कृतः अपरं च, शुकस्यागमनात् तस्य विग्रहोत्साहः । स च चिराद् अत्रास्ते । मन्त्री ब्रूतेतथाप्यागन्तुकः शङ्कनीयः । राजाहागन्तुका अपि कदाचिद् उपकारका दृश्यन्ते । शृणु
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.