तच् छ्रुत्वा वानरैर्जातामर्षैरालोचितम्हो ! निर्वातनीडगर्भावस्थिताः सुखिनः पक्षिणोस्मान् निन्दन्ति । तद् भवतु तावद् वृष्टेरुपशमः । अनन्तरं शान्ते पानीयवर्षे तैर्वानरैर्वृक्षम् आरुह्य, सर्वे नीडा भग्नाः, तेषाम् अण्डानि चाधः पातितानि । अतोहं ब्रवीमि विद्वान् एवोपदेष्टव्यः इत्य् आदि । राजोवाच्ततस्तैः पक्षिभिः किं कृतम् बकः कथयतिततस्तैः पक्षिभिः कोपाद् उक्तम्केनासौ राजहंसो राजा कृतः ततो मयोपजातकोपेनोक्तम्यं युष्मदीयो मयूरः केन राजा कृतः एतच् छ्रुत्वा ते पक्षिणो मां हन्तुम् उद्यताः । ततो मयापि स्वविक्रमो दर्शितः । यतः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.