ततो राजा काकश्च स्वां प्रकृतिम् आपन्नौ । शुकोप्य् उत्थाय चलितः । पश्चाच् चक्रवाकेणानीय प्रबोध्य कनकालङ्कारादिकं दत्वा सम्प्रेषितः स्वदेशं ययौ । शुकोपि विन्ध्याचलं गत्वा, स्वस्य राजानं चित्रवर्णं प्रणतवान् । तं विलोक्य राजोवाच्शुक ! का वार्ता कीदृशोसौ देशः शुको ब्रूतेदेव ! संक्षेपाद् इयं वार्ता । सम्प्रति युद्धोद्योगः क्रियताम् । देशश्चासौ कर्पूरद्वीपः स्वर्गैकदेशो, राजा च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । ततः सर्वान् शिष्टान् आहूय राजा मन्त्रयितुम् उपविष्टः । आह च तान्सम्प्रति कर्तव्ये विग्रहे यथाकर्तव्यम् उपदेशं ब्रूत । विग्रहः पुनरवश्यं कर्तव्यः । तथा चोक्तम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.