ततः सभां कृत्वाहूतः शुकः काकश्च । शुकः किंचिद् उन्नतशिरा दत्तासने उपविश्य ब्रूतेभो हिरण्यगर्भ ! त्वां महाराजाधिराजः श्रीमच्चित्रवर्णः समाज्ञापयतियदि जीवितेन श्रिया वा प्रयोजनम् अस्ति, तदा सत्वरम् आगत्यास्मच्चरणौ प्रणम । नो चेद् अवस्थातुं स्थानान्तरं परिचिन्तय । राजा सकोपम् आहाः, सभायाम् अस्माकं न कोपि विद्यते य एनं गलहस्तयति तत उत्थाय मेघवर्णो ब्रूतेदेव ! आज्ञापय, हमि चैनं दुष्टशुकम् । सर्वज्ञो राजानं काकं च सान्त्वयन् ब्रूतेभद्र ! मा मैवम् । शृणु तावत्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.