राजोवाच्कथम् एतत् दीर्घमुखः कथयति अस्ति नर्मदातीरे पर्वतोपत्यकायां विशालः शाल्मलीतरुः । तत्र निर्मितनीडकोडे पक्षिणः सुखेन निवसन्ति । अथैकदा वर्षासु नीलपटैरिव जलधरपटलैरावृते नभस्तले । धारासारैर्महती वृष्टिर्बभूव । ततो वानरांश्च तरुतलेवस्थितान् शीताकुलान् कम्पमानान् अवलोक्य, कृपया पक्षिभिरुक्तम्भो भो वानराः ! शृणुत
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.