एकदासौ राजहंसैः सुविस्तीर्णकमलपर्यङ्के सुखासीनः परिवारपरिवृतस्तिष्ठति । ततः कुतश्चिद् देशाद् आगत्य दीर्घमुखो नाम बकः प्रणम्योपविष्टः । राजोवाच्दीर्घमुख ! दशान्तराद् आगतोसि । वार्तां कथय। स ब्रूते देव ! अस्ति महती वार्ता । ताम् आख्यातुकाम एव सत्वरम् आगतोहम् । श्रूयताम् अस्ति जम्बूद्वीपे विन्ध्यो नाम गिरिः । तत्र चित्रवर्णो नाम मयूरः पक्षिराजो निवसति । तस्यानुचरैश्चरद्भिः पक्षिभिरहं दग्धारच्यमध्ये चरन्न् अवलोकितः । पृष्टश्च्कस्त्वम् कुतः समागतोसि तदा मयोक्तम्कर्पूरद्वीपस्य राजचक्रवर्तिनो हिरण्यगर्भस्य र्जहंसस्यानुचरोहं, कौतुकाद् देशान्तरं द्रष्टुम् आगतोस्मि । एतच् छ्रुत्वा पक्षिभिरुक्तम्नयोर्देशयोः को देशो भद्रतरो राजा च ततो मयोक्तम् किम् एवम् उच्यते महद् अन्तरम् । यतः कर्पूरद्वीपः स्वर्ग एव । राजहंसश्च द्वितीयः स्वर्गपतिः कथं वर्णयितुं शक्यते । अत्र मरुस्थले पतिता यूयं किं कुरुथ । अस्मद्देशे गम्यताम् । ततोस्मद्वचनम् आकर्ण्य सर्वपक्षिणः सकोपा बभूवुः । तथा चोक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.