राज्ञोक्तम्कथम् एतत् शुकः कथयति अस्ति यौवनश्रीनगरे मन्दमतिर्नाम रथकारः । स च स्वभार्यां बन्धकीं जानाति । किन्तु जारेण समं स्वचक्षुषा नैकस्थाने पश्यति । ततोसौ रथकारः अहम् अन्यं ग्रामं गच्छामीत्य् उक्त्वा चलितः । स कियद् दूरं गत्वा पुनरागत्य पर्यङ्कतले स्वगृहे निभृतं स्थितः । अथ रथकारो ग्रामान्तरं गत इत्य् उपजातविश्वासः स जारः सन्ध्याकाल एवागतः । पज्चात् तेन जारेण समं तस्मिन् पर्यङ्के निर्भरं क्रीडन्ती, पर्यङ्कतलस्थितस्य भर्तुः किञ्चिद् अङ्गस्पर्शात् स्वामिनं मायाविनं विज्ञाय, मनसि सा विषण्णाभवत् । ततो जारेणोक्तम्किम् इति त्वम् अद्य मया सह निर्भरं न रमसे विस्मितेव प्रतिभासि मे त्वम् । अथ तयोक्तम्नभिज्ञोसि । योसौ मम प्राणेश्वरो, येन ममाकौमारं सख्यं सोद्य ग्रामान्तरं गतः । तेन विना सकलजनपूर्णोपि ग्रामो मां प्रत्य् अरण्यवत् प्रतिभाति । किं भावि तत्र परस्थाने किं खादितवान् कथं वा प्रसुप्तः इत्य् अस्मद्धृदयं विदीर्यते । जारो ब्रूतेतव किम् एवंविधा स्नेहभूमी रथकारः बन्धक्य् अवदत्रे बर्बर ! किं वदसि शृणु
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.