तद् अहं तद्आज्ञया ब्रवीमि, शृणु । यद् एते चन्द्रसरोरक्षकाः शशकास्त्वया निःसारितास्तद् अनुचितं कृतम् । ते शशकाश्चिरम् अस्माकं रक्षिताः । अत एव मे शशाङ्क इति प्रसिद्धिः । एवम् उक्तवति दूते यूथपतिर्भयाद् इदम् आह्प्रणिधे ! इदम् अज्ञानतः कृतम् । पुनर्न तत्र गमिष्यामि । दूत उवाच्यद्य् एवं तद् अत्र सरसि कोपात् कम्पमानं भगवन्तं शशाङ्कं प्रणम्य, प्रसाद्य च गच्छ । ततस्तेन रात्रौ यूथपतिं नीत्वा, तत्र जले चञ्चलं चन्द्रबिम्बं दर्शयित्वा स यूथप्तिः प्रणामं कारितः । उक्तं च तेन्देव ! अज्ञानाद् अनेनापराधः कृतः । ततः क्षम्यताम् । नैवं वारान्तरं विधास्यते । इत्य् उक्त्वा प्रस्थापितः । अतो वयं ब्रूमःव्यपदेशेपि सिद्धिः स्यात् इति । ततो मयोक्तम्स एवास्मत्प्रभू राजहंसो महाप्रतापोतिस्मर्थः । त्रैलोक्यस्यापि प्रभुत्वं तत्र युज्यते, किं पुना राज्यम् इति । तदाहं तैः पक्षिभिःदुष्ट ! कथम् अस्मद्भूमौ चरसि इत्य् अभिधाय राज्ञश्चित्रवर्णस्य समीपं नीतः । ततो राज्ञः पुरो मां प्रदर्श्य तैः प्रणम्योक्तम्देव ! अवधीयताम् । एष दुष्टोस्मद्देशे चरन्न् अपि देवपादान् अधिक्षिपति । राजाह्कोयम् कुतः समायातः ते ऊचुःहिरण्यगर्भनाम्नो राजहंसस्यानुचरः कर्पूरद्वीपाद् आगतः । अथाहं गृध्रेण मन्त्रिणा पृष्टःकस्तत्र मुख्यो मन्त्री इति । मयोक्तम्सर्वशास्त्रार्थपारगः शर्वज्ञो नाम चक्रवाकः । गृध्रो ब्रूतेयुज्यते । स्वदेशजोसौ । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.