मयोक्तम्कथम् एतत् पक्षिणः कथयन्ति कदाचिद् वर्षास्व् अपि वृष्टेरभावात् तृषार्तो गजयूथो यूथपतिम् आह्नाथ ! कोभ्युपायोस्माकं जीवनाय नास्ति क्षुद्रजन्तूनां अपि निमज्जनस्थानम् । वयं च निमज्जनस्थानाभावान् मृताः । अन्धा इव किं कुर्मः क्व यामः ततो हस्तिराजो नातिदूरं गत्वा निर्मलं ह्रदं दर्शितवान् । ततो दिनेषु गच्छत्सु तत्तीरावस्थिताः क्षुद्रशशका गजपादाहतिभिश्चूर्णिताः । अनन्तरं शिलीमुखो नाम शशकश्चिन्तयामासनेन गजयूथेन पिपासाकुलितेन प्रत्यहम् अत्रागन्तव्यम् । ततो विनष्टम् अस्मत्कुलम् । ततो विजयो नाम वृद्धशशकोवदत्मा विषीदत । मयात्र प्रतीकारः कर्तव्यः । ततोसौ प्रतिज्ञाय चलितः । गच्छता च तेनालोचितम्कथं मया गजयूथनाथसमीपे स्थित्वा वक्तव्यम् । यतः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.