राजा हंसश्च स्वभावान्मन्दगतिः । सारसद्वितीयश्चित्रवर्णस्य सेनापतिना कुक्कुटेनागत्य वेष्टितः । हिरण्यगर्भः सारसम् आह्सेनापते ! सारस ! ममानुरोधाद् आत्मानं कथं व्यापादयसि । अधुनाहं गन्तुम् असमर्थः । त्वं गन्तुम् अधुनापि समर्थः । तद् गत्वा जलं प्रविश्यात्मानं परिरक्ष । अस्मत्पुत्रं चूडामणिनामानं सर्वज्ञस्य संमत्या राजानं करिष्यसि । सारसो ब्रूतेदेव ! न वक्तव्यम् एवं दुःसहं वचः, यावच् चन्द्रार्कौ दिवि तिष्ठतस्तावद् विजयतां देवः । अहं देव दुर्गाधिकारी । तन्मम मांसासृग् विलिप्तेन द्वारवर्त्मना तावत् प्रविशतु शत्रुः । अपरं च, देव
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.