तद् अत्र भवत्प्रतापाद् एव दुर्गं भङ्क्त्वा, कीर्तिप्रतापसहितं त्वाम् अचिरेण कालेन विन्ध्याचलं नेष्यामि । राजाह्कथम् अधुना स्वल्पबलेन तत् सम्पद्यते गृध्रो वदतिदेव ! सर्वं भविष्यति । यतो विजिगीषोरदीर्घसूत्रता विजयसिद्धेरवश्यम्भावि लक्षणम् । तत् सहसैव दुर्गद्वारावरोधः क्रियताम् । अथ प्रहितप्रणिधिना बकेनागत्य हिरण्यगर्भस्य कथितम्देव ! स्वल्पबल एवायं राजा चित्रवर्णो गृध्रस्य वचनोपष्टम्भाद् आगत्य दुर्गद्वारावरोधं करिष्यति । राजहंसो ब्रूतेस्वबले सारासारविचारः क्रियताम् । तज् ज्ञात्वा सुवर्णवस्त्रादिकं यथार्हं प्रसादप्रदानं च क्रियताम् । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.