इत्य् आलोच्याहम् अपि तूष्णीं स्थितः । अथ राजा बद्धाञ्जलिराह्तात ! अस्त्य् अयं ममापराधः, इदानीं यथाहम् अवशिष्टबलसहितः प्रत्यावृत्त्य विन्ध्याचलं गच्छामि, तथोपदिश । गृध्रः स्वगतं चिन्तयतिक्रियताम् अत्र प्रतीकारः । यतः,
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.