राजा पृच्छतिकथम् एतत् मन्त्री कथयति अस्त्य् अयोध्यायां पुरि चूडामणिर्नाम क्षत्रियः । तेन धनार्थिना महता क्लेशेन भगवांश्चन्द्रार्धचूडामणिश्चिरम् आराधितः । ततः क्षीणपापोसौ स्वप्ने दर्शनं दत्त्वा, भगवद्आदेशाद्य्अक्षेश्वरेणादिष्टो यत् त्वम् अद्य प्रातः क्षौरं कारयित्वा, लगुड हस्तः सन् स्वगृहद्वारि निभृतं स्थास्यसि, ततो यम् एवागतं भिक्षुकं प्राङ्गणे पश्यसि तं निर्दक्षं लगुडप्रहारेण हनिष्यसि । ततोसौ भिक्षुकस्तत्क्षणात् सुवर्णकलसो भविष्यति । तेन त्वया यावज्जीवं सुखिना भवितव्यम् । ततस्तथानुष्ठिते तद् वृत्तम् । तत्र क्षौरकरणायानीतेन नापितेन तत् सर्वम् आलोक्य चिन्तितम्ये निधिप्राप्तेरयम् उपायः । तद् अहम् अप्य् एवं किं न करोमि ततः प्रभृति स नापितः प्रत्यहं तथाविधो लगुडहस्तः सुनिभृतं भिक्षोरागमनं प्रतीक्षते । एकदा तेन प्राप्तो भिक्षुर्लगुडेन व्यापादितः । तस्माद् अपराधात् सोपि नापितो राजपुरुषैर्व्यापादितः । अतोहं ब्रवीमिपुण्याल् लब्धं यद् एकेन इत्य् आदि । राजाह्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.