तद् एतत्परित्यक्तेन मम राज्येनापि किं प्रयोजनम् । ततः शूद्रकेणापि स्वशिरश्छेत्तुं खड्गः समुत्थापितः । अथ भगवत्या सर्वमङ्गलया प्रत्यक्षभूतया राजा हस्ते धृतः । उक्तं च्पुत्र ! प्रसन्नोस्मि ते, एतावता साहसेनालम् । जीवनान्तेपि तव राजभङ्गो नास्ति । राजा च साष्टाङ्गपातं प्रणम्योवाच्देवि ! किं मे राज्येन जीवितेन वा मम किं प्रयोजनम् यद्य् अहम् अनुकम्पनीयस्तदा ममायुःशेषेणाप्ययं सदारपुत्रो वीरवरो जीवतु । अन्यथाहं यथाप्राप्तां गतिं गच्छामि । भगवत्य् उवाच्पुत्र ! अनेन ते सत्त्वोत्कर्षेण भृत्यवात्सल्येन च सर्वथा सन्तुष्टास्मि । गच्छ विजयी भव । अयम् अपि सपरिवारो राजपुत्रो जीवतु । इत्य् उक्त्वा देव्य् अदृश्याभवत् । ततो वीरवरः सपुत्रदारः प्राप्तजीवनः स्वगृहं गतः । राजापि तैरलक्षितः सत्वरम् अन्तःपुरं प्रविष्टः । अथ प्रभाते वीरवरो द्वारस्थः पुनर्भूपालेन पृष्टः सन्न् आह्देव ! सा रुदती माम् अवलोक्यादृश्याभवत् । न काप्यन्या वार्ता विद्यते । तद् वचनम् आकर्ण्य सन्तुष्टो राजा साश्चर्यं चिन्तयामास्कथम् अयं श्लाघ्यो महासत्त्वः यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.