शक्तिधरमातोवाच्यद्य् एतन् न कर्तव्यं तत् केनान्येन कर्मणा गृहीतस्य महावर्तनस्य निष्क्रयो भविष्यति । इत्य् आलोच्य सर्वे सर्वमङ्गलायाः स्थानं गताः । तत्र सर्वमङ्गलां सम्पूज्य वीरवरो ब्रूतेदेवि ! प्रसीद । विजयतां शूद्रको महाराजः । गृह्यताम् अयम् उपहारः । इत्य् उक्त्वा पुत्रस्य शिरश्चिच्छेद । ततो वीरवरश्चिन्तयामास्गृहीतराजवर्तनस्य निस्तारः कृतः । अधुना निष्पुत्रस्य मे जीवनेनालम् । इत्य् आलोच्यात्मनः शिरश्चिच्छेद । ततः स्त्रियापि स्वामिपुत्रशोकार्तया तद् अनुष्ठितम् । तत् सर्वं दृष्ट्वा राजा साश्चर्यं चिन्तयामास
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.