राजाह्कथम् एतत् दमनकः कथयति अस्ति श्रीपर्वतमध्ये ब्रह्मपुराख्यं नगरम् । तच्छिखरप्रदेशे घण्टाकर्णो नाम राक्षसः प्रतिवसतीति जनप्रवादः श्रूयते । एकदा घण्टाम् आदाय पलायमानः कश्चिच् चौरो व्याघ्रेण व्यापादितः । तत्पाणिपतिता घण्टा वानरैः प्राप्ता । वानरास्तां घण्टाम् अनुक्षणं वादयन्ति । ततो नगरजनैः स मनुष्यः खादितो दृष्टः प्रतिक्षणं घण्टारवश्च श्रूयते । अनन्तरं घण्टाकर्णः कुपितो मनुष्यान् खादति घण्टां च वादयतीत्य् उक्त्वा सर्वे जना नगरात् पलायिताः । ततः करालया नाम कुट्टन्या विमृश्यानवरोयं घण्टानादः । तत् किं मर्कटा घण्टां वादयन्तीति स्वयं विज्ञाय राजा विज्ञापितःदेव ! यदि कियद् धनोपक्षयः क्रियते, तदाहम् एनं घण्टाकर्णं साधयामि । ततो राजा तस्यै धनं दत्तम् । कुट्टन्या मण्डलं कृत्वा तत्र गणेशादिपूजागौरवं दर्शयित्वा स्वयं वानरप्रियफलान्य् आदाय वनं प्रविश्य फलान्य् आकीर्णानि । ततो घण्टां परित्यज्य वानराः फलासक्ता बभूवुः । कुट्टनी च घण्टां गृहीत्वा नगरम् आगता सर्वजनपूज्याभवत् । अतोहं ब्रवीमिशब्दमात्रान् न भेतव्यम् इत्य् आदि । ततः संजीवकम् आनीय दर्शनं कारितवन्तौ । पश्चात् तत्रैव परमप्रीत्या निवसति । अथ कदाचित् तस्य सिंहस्य भ्राता स्तब्धकर्णनामा सिंहः समागतः । तस्यातिथ्यं कृत्वा सिंहम् उपवेश्य पिङ्गलकस्तद्आहाराय पशुं हन्तुं चलितः । अत्रान्तरे संजीवको वदतिदेव ! अद्य हतमृगाणां मांसानि क्व राजाह्दमनककरटकौ जानीतः । संजीवको ब्रूतेज्ञायतां किम् अस्ति नास्ति वा सिंहो विमृश्याह्नास्त्य् एव तत् । संजीवको ब्रूतेकथम् एतावन् मांसं ताभ्यां खादितम् राजाह्खादितं व्ययितम् अवधीरितं च । प्रत्यहम् एष क्रमः । संजीवको ब्रूतेकथं श्रीमद्देवपादानां अगोचरेणैव क्रियते राजाह्मदीयागोचरेणैव क्रियते । अथ संजीवको ब्रूतेनैतद् उचितम् । तथा चोक्तम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.