ततस्तौ संजीवकं कियद् दूरे संस्थाप्य पिङ्गलकसमीपं गतौ । ततो राजा सादरम् अवलोकितौ प्रणम्योपविष्टौ । राजाह्त्वया स दृष्टः दमनको ब्रूतेदेव ! दृष्टः । किन्तु यद् देवेन ज्ञातं तत् तथा । महान् एवासौ देवं द्रष्टुम् इच्छति । किन्तु महाबलोसौ ततः सज्जीभूयोपविश्य दृश्यताम् । शब्दमात्राद् एव न भेतव्यम् । तथा चोक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.