दमनको विहस्याह्मित्र ! तूष्णीम् आस्यताम् । ज्ञातं मया भयकारणम् । बलीवर्दनर्दितं तत् । वृषभाश्चास्माकम् अपि भक्ष्याः । किं पुनः सिंहस्य । करटको ब्रूतेयद्य् एवं तदा किम् पुनः स्वामित्रासस्तत्रैव किम् इति नापनीतः । दमनको ब्रूतेयदि स्वामित्रासस्तत्रैव मुच्यते तदा कथम् अयं महाप्रसादलाभः स्यात् । अपरं च
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.