तद् भद्र ! अनुजानीहि माम् । गच्छामि । करटको ब्रूतेशुभम् अस्तु । शिवास्ते पन्थानः । यथाभिलषितम् अनुष्ठीयताम् इति । ततो दमनको विस्मित इव पिङ्गलकसमीपं गतः । अथ दूराद् एव सादरं राज्ञा प्रवेशितः साष्टाङ्गप्रणिपातं प्रणिपत्योपविष्टः । राजाह्चिराद् दृष्टोसि । दमनको ब्रूतेयद्यपि मया सेवकेन श्रीमद्देवपादानां न किंचित् प्रयोजनम् अस्ति, तथापि प्राप्तकालम् अनुजीविना सांनिध्यम् अवश्यं कर्तव्यम् इत्य् आगतोस्मि । किं च
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.