दमनकः पृच्छतिकथम् एतत् करकटः कथयति अस्ति मगधदेशे धर्मारण्यसंनिहितवसुधायां शुभदत्तनाम्ना कायस्थेन विहारः कर्तुम् आरब्धः । तत्र करपत्रदार्यमाणैकस्तम्भस्य कियद् दूरस्फाटितस्य काष्ठखण्डद्वयमध्ये कीलकः सूत्रधारेण निहितः । तत्र बलवान् वानरयूथः क्रीडन्न् आगतः । एको वानरः कालप्रेरित इव तं कीलकं हस्ताभ्यां धृत्वोपविष्टम् । अनन्तरं स च सहजचपलतया महता प्रयत्नेन तं कीलकम् आकृष्टवान् । आकृष्टे च कीलके चूर्णिताण्डद्वयः पञ्चत्वं गतः । अतोहं ब्रवीमिव्यापरेषु व्यापारम् इत्य् आदि । दमनको ब्रूतेतथापि स्वामिचेष्टानिरूपणं सेवकेनावश्यं करणीयम् । करटको ब्रूतेसर्वस्मिन्न् अधिकारे य एव नियुक्तः प्रधानमन्त्री स करोतु । यतोनुजीविना पराधिकारचर्चा सर्वथा न कर्तव्या । पश्य्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.