स चैकदा पिपासाकुलितः पानीयं पातुं यमुनाकच्छम् अगच्छत् । तेन च तत्र सिंहेनाननुभूतपूर्वकम् अकालघनगर्जितम् इव संजीवकनर्दितम् अश्रावि । तच् छ्रुत्वा पानीयम् अपीत्वा सचकितः परिवृत्य स्वस्थानम् आगत्य किम् इदम् इत्य् आलोचयंस्तूष्णीं स्थितः । स च तथाविधः करटकदमनकाभ्याम् अस्य मन्त्रिपुत्राभ्यां दृष्टः । तं तथाविधं दृष्ट्वा दमनकः करटकम् आह्सखे करटक ! किम् इत्य् अयम् उदकार्थी स्वामी पानीयम् अपीत्वा सचकितो मन्दं मन्दम् अवतिष्ठते । करटको ब्रूतेमित्र दमनक ! अस्मन्मतेनास्य सेवैव न क्रियते । यदि तथा भवति तर्हि किम् अनेन स्वामिचेष्टानिरूपेणास्माकम् । यतोनेन राज्ञा विनापराधेन चिरम् अवधीरिताभ्याम् आवाभ्यां महद्दुःखम् अनुभूतम् ।
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.