इति दमनकेन सन्तोषितः पिङ्गलकः स्वां प्रकृतिम् आपन्नः सिंहासने समुपविष्टः । दमनकः प्रहृष्टमनाः विजयतां महाराजः शुभम् अस्तु सर्वजगताम् इत्य् उक्त्वा यथासुखम् अवस्थितः । विष्णुशर्मोवाच्सुहृद्भेदः श्रुतस्तावद् भवद्भिः । राजपुत्रा ऊचुःभवत्प्रसादाच् छ्रुतः । सुखिनो भूता वयम् ।
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.