अथ कदाचित् सा दण्डनायकपुत्रेण सह रममाणा तिष्ठति । अथ दण्डनायकोपि रन्तुं तत्रागतः । तम् आयान्तं दृष्ट्वा तत्पुत्रं कुसूले निक्षिप्य दण्डनायकेन सह तथैव क्रीडति । अनन्तरं तस्य भर्ता गोपो गोष्ठात् समागतः । तम् अवलोक्य गोप्योक्तम्दण्डनायक ! त्वं लगुडं गृहीत्वा कोपं दर्शयन् सत्वरं गच्छ । तथा तेनानुष्ठिते गोपेन गृहम् आगत्य पृष्ठाकेन कार्येण दण्डनायकः समागत्यात्र स्थितः सा ब्रूतेन्यं केनापि कार्येण पुत्रस्योपरि क्रुद्धः । स च मार्यमाणोप्यत्रागत्य प्रविष्टो मया कुसूले निक्षिप्य रक्षितः । तत्पित्रा चान्विष्यात्र न दृष्टः । अत एवायं दण्डनायकः क्रुद्ध एव गच्छति । ततः सा तत्पुत्रं कुषुलाद् बहिष्कृत्य दर्शितवती । तथा चोक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.