तस्य तादृशीम् अवस्थाम् अवलोक्य परिक्लिष्टमनास्त्वाम् अनुवर्तितुम् आगता । तद् अहम् अत्रात्मानं बद्ध्वा तिष्ठामि । त्वं तत्र गत्वा तं सन्तोष्य सत्वरम् आगमिष्यसि । तथानुष्ठिते सति स गोपः प्रबुद्धोवदत्िदानीं त्वां पापिष्ठां जारान्तिकं नयामि । ततो यदासौ न किंचिद् अपि ब्रूते तदा क्रुद्धो गोपःदर्पान्मम वचसि प्रत्युत्तरम् अपि न ददासि इत्य् उक्त्वा कोपेन तेन कर्तरिकामादायास्या नासिका छिन्ना । तथा कृत्वा पुनः सुप्तो गोपो निद्राम् उपगतः । अथागत्य गोपी दूतीम् अपृच्छत्का वार्ता दूत्योक्तम्पश्य माम् । मुखम् एव वार्तां कथयति । अनन्तरं सा गोपी तथा कृत्वात्मानं बद्ध्वा स्थिता । इयं च दूती तां छिन्ननासिकां गृहीत्वा स्वगृहं प्रविश्य स्थिता । ततः प्रातरेवानेन नापितेन स्ववधूः क्षुरभाण्डं याचिता सती क्षुरम् एकं प्रादात् । ततोसमग्रभाण्डे प्राप्ते समुपजातकोपोयं नापितस्तं क्षुरं दूराद् एव गृहे क्षिप्तवान् । अथ कृतार्तरायेयं मे नासिकानेन छिन्नेत्य् उक्त्वा धर्माधिकारिसमीपम् एतम् आनीतवती । सा च गोपी तेन गोपेन पुनः पृष्टोवाचरे पाप ! को मां महासती विरूपयितुं समर्थः । मम व्यवहारम् अकल्मषम् अष्टौ लोकपाला एव जानन्ति, यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.