काकेन उक्तमेवम् अस्तु । अथ प्रातः सर्वे यथाभिमतदेशं गताः । एकदा निभृतं शृगालो ब्रूतेसखे मृग ! एतस्मिन्न् एव वनैकदेशे सस्यपूर्णं क्षेत्रम् अस्ति । तद् अहं त्वां तत्र नीत्वा दर्शयामि । तथा कृते सति मृगः प्रत्यहं तत्र गत्वा सस्यं खादति । ततो दिनकतिपयेन क्षेत्रपतिना तद् दृष्ट्वा पाशास्तत्र योजिताः । अनन्तरं पुनरागतो मृगः तत्र चरन् पाशैर्बद्धोचिन्तयत्को माम् इतः कालपाशाद् इव व्याधपाशात् त्रातुं मित्राद् अन्यः समर्थः अत्रान्तरे जम्बुकस्तत्रागत्य उपस्थितोचिन्तयत्फलितस्तावद् अस्माकं कपटप्रबन्धः । मनोरथसिद्धिरपि बाहुल्यान् मे भविष्यति । यतः एतस्य उक्तृत्यमानस्य मांसासृग्लिप्तानि अस्थीनि मया अवश्यं प्राप्तव्यानि । तानि च बाहुल्येन मम भोजनानि भविष्यन्ति । स च मृगस्तं दृष्ट्वा उल्लासितो ब्रूतेसखे ! छिन्धि तावन्मम बन्धनम् । सत्वरं त्रायस्व माम् । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.