एवं विश्वास्य स मार्जारस्तरुकोटरे स्थितः । ततो दिनेषु गच्छत्सु असौ पक्षिशावकान् आक्रम्य स्वकोटरम् आनीय प्रत्यहं खादति । अथ येषाम् अपत्यानि खादितानि । तैः शोकार्तैर्विलपद्भिरितस्ततो जिज्ञासा समारब्धा । तत् परिज्ञाय मार्जारः कोटरान् निःसृत्य बहिः पलायितः । पश्चात् पक्षिभिरितस्ततो निरूपयद्भिस्तत्र तरुकोटरे शावकाः खादिता इति सर्वैः पक्षिभिर्निश्चित्य च गृध्रो व्यापादितः । अतोहं ब्रवीमिज्ञातकुलशीलस्य इत्य् आदि । इत्य् आकर्ण्य स जम्बुकः सकोपम् आह्मृगस्य प्रथमदर्शनदिने भवान् अपि अज्ञातकुलशील एव आसीत् । तत् कथं भवता सह एतस्य स्नेहानुवृत्तिरुत्तरोत्तरं वर्धते अथवा
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.