राजपुत्रा ऊचुः कथम् एतत् सोब्रवीत्स्ति गोदावरीतीरे विशालः शाल्मलीतरुः । तत्र नानादिग्देशाद् आगत्य रात्रौ पक्षिणो निवसन्ति । अथ कदाचिद् अवसन्नायां रात्रौ अस्ताचलचूडावलम्बिनि भगवति कुमुदिनीनायके चन्द्रमसि । लघुपतननामा वायसः प्रबुद्धः कृतान्तम् इव द्वितीयम् अटन्तं पाशहस्तं व्याघम् अपश्यत् । तम् आलोक्याचिन्तयत्द्य प्रातरेवानिष्टदर्शनं जातम् । न जाने किम् अनभिमतं दर्शयिष्यति । इत्य् उक्त्वा तद् अनुसरणक्रमेण व्याकुलश्चलति । यतः
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.