तद् यथा लग्नवेला न चलति तथा कृत्वा सत्वरम् आगम्यतां देवेन । इत्य् उक्त्वा उत्थाय चलितः । ततोसौ राज्यलाभाकृष्टः कर्पूरतिलकः शृगालदर्शितवर्त्मना धावन्महापङ्के निमग्नः । हस्तिनोक्तम्सखे शृगाल ! किम् अधुना विधेयम् महापङ्के पतितोहं म्रिये । परावृत्य पश्य ! शृगालेन विहस्योक्तम्देव ! मम पुच्छाग्रे हस्तं दत्त्वा उत्तिष्ठ । यस्मात् मद्विधस्य वचसि त्वया विश्वासः कृतः, तस्य फलम् एतत् । तद् अनुभूयताम् अशरणं दुःखम् । तथा चोक्तम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.