तद् एवं ते स्वेच्छाहारविहारं कुर्वाणाः सन्तुष्टाः सुखं निवसन्ति स्म । अथ कदाचित् चित्राङ्गनामा मृगः केनापि त्रासितस्तत्रागत्य मिलितः । तत्पश्चाद् आयान्तं भयहेतुं सम्भाव्य मन्थरो जलं प्रविष्टः । मूषिकश्च विवरं गतः, काकोपि उड्डीय वृक्षाग्रम् आरूढः । ततो लघुपतनकेन सुदूरं निरूप्य भयहेतुर्न कोप्यवलम्बितः । पश्चात् तद्वचनाद् आगत्य पुनः सर्वे मिलित्वा तत्रैवोपविष्टाः । मन्थरेणोक्तंभद्र मृग ! कुशलं ते स्वेच्छया उदकाद्याहारोनुभूयताम् । अत्रावस्थानेन वनम् इदं सनाथीक्रियताम् । चित्राङ्गो ब्रूतेलुब्धकत्रासितोहं भवतां शरणम् आगतः । ततश्च, भवद्भिः सह मित्रत्वम् इच्छामि । भवन्तश्च अनुकम्पयन्तु मैत्र्येण । यतः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.