तद् भवतु भवतः अभिमतम् एव इत्य् उक्त्वा हिरण्यको मैत्र्यं विधाय भोजनविशेषैर्वायसं सन्तोष्य विवरं प्रविष्टः । वायसोपि स्वस्थानं गतः ततःप्रभृति तयोः अन्योन्याहारप्रदानेन कुशलप्रश्नैः विश्रम्भालापैश्च कियत्कालोतिवर्तने । एकदा लघुपतनको हिरण्यकम् आह्सखे ! वायसस्य कष्टतरलभ्याहारम् इदं स्थानम् । तद् एतत् परित्यज्य स्थानान्तरं गन्तुम् इच्छामि । हिरण्यको ब्रूते
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.