तत्क्षणं क्षणदाचराणां मिषतामेव निष्पादितरङ्गनिष्पेषकृत्यश्चैत्यप्रासादमुत्पाटितस्तम्भजातजातवेदसा दग्ध्वा भूयोप्युपाश्रिततोरणः समीरणसुतो बभूव । एनमपि वृत्तान्तं श्रुत्वा कुपितस्य निशाचरपतेर्युगपदेव निपेतुः पुत्रे सुत्रामजिति समितिहेतोर्विंशतिदृष्टयः ।
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.