॥ अथ द्वितीयोऽङ्कः ॥
(ततः प्रविशति चेटी)
चेटी—कुञ्जरिए ! कुञ्जरिए ! कहिं कहिं भट्टिदारिआ पदुमावदी । किं भणासि, एसा भट्टिदारिआ माहवीलदामण्डवस्स पस्सदो कन्दुएण कीलदि त्ति । जाव भट्टिदारिअं उवसप्पामि । (परिक्रम्यावलोक्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूलिएण वाआमसञ्जादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण मुहेण कन्दुएण कीलन्दी इदो एव्व आअच्छदि । जाव उवसप्पिस्सं । [कुञ्जरिके ! कुञ्जरिके ! कुत्र कुत्र भर्तृदारिका पद्मावती । किं भणसि, एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडतीति । यावद् भर्तृदारिकामुपसर्पामि । अम्मो इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसञ्जातस्वेदबिन्दुविचित्रितेन परिश्रान्तरमणीयदर्शनेन मुखेन कन्दुकेन क्रीडन्ती इत एवागच्छति । यावदुपसर्पामि ।]
(निष्क्रान्ता)
प्रवेशकः ।
(ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा वासवदत्तया सह)
वासवदत्ता—हला ! एसो दे कन्दुओ । [हला ! एष ते कन्दुकः ।]
पद्मावती—अय्ये ! भोदु दाणिं एत्तअं । [आर्ये ! भवत्विदानीमेतावत् ।]
वासवदत्ता—हला ! अदिचिरं कन्दुएण कीलिअ अहिअसञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता । [हला ! अतिचिरं कन्दुकेन क्रीडित्वाधिकसञ्जातरागौ परकीयाविव ते हस्तौ संवृत्तौ ।]
चेटी—कीलदु कीलदु दाव भट्टिदारिआ । णिव्वत्तीअदु दाव अअं कण्णाभावरमणीओ कालो । [क्रीडतु क्रीडतु तावद् भर्तृदारिका । निर्वर्त्यतां तावदयं कन्याभावरमणीयः कालः ।]
पद्मावती—अय्ये ! किं दाणिं मं ओहसिदुं विअ णिज्झाअसि । [आर्ये ! किमिदानीं मामपहसितुमिव निध्यायसि ।]
वासवदत्ता—णहि णहि । हला ! अधिअं अज्ज सोहसि । अभिदो विअ दे अज्ज वरमुहं पेक्खामि । [न हि न हि । हला ! अधिकमद्य शोभसे । अभित इव तेऽद्य वरमुखं प्रेक्षे ।]
पद्मावती—अवेहि । मा दाणिं मं ओहस । [अपेहि । मेदानीं मामुपहस ।]
वासवदत्ता—एसह्मि तुह्णीआ भविस्सम्महासेणवहू । [एषास्मि तूष्णीका भविष्यन्महासेनवधूः ।]
पद्मावती—को एसो महासेणो णाम । [क एष महासेनो नाम ।]
वासवदत्ता—अत्थि उज्जइणीओ राआ पज्जोदो णाम । तस्स बलपरिमाणणिव्वुत्तं णामहेअं महासेणो त्ति । [अस्त्युज्जयिनीयो राजा प्रद्योतो नाम । तस्य बलपरिमाणनिर्वृत्तं नामधेयं महासेन इति ।]
चेटी—भट्टिदारिआ तेण रञ्ञा सह सम्बन्धं णेच्छदि । [भर्तृदारिका तेन राज्ञा सह सम्बन्धं नेच्छति ।]
वासवदत्ता—अह केण खु दाणिं अभिलसदि । [अथ केन खल्विदानीमभिलषति ।]
चेटी—अत्थि वच्छराओ उअअणो णाम । तस्स गुणाणि भट्टिदारिआ अभिलसदि । [अस्ति वत्सराज उदयनो नाम । तस्य गुणान् भर्तृदारिकाभिलषति ।]
वासवदत्ता—(आत्मगतम्) अय्यउत्तं भत्तारं अभिलसदि । (प्रकाशम्) केण कारणेण । [आर्यपुत्रं भर्तारमभिलषति । (प्रकाशम्) केन कारणेन ।]
चेटी—साणुक्कोसो त्ति । [सानुक्रोश इति ।]
वासवदत्ता—(आत्मगतम्) जाणामि जाणामि । अअं वि जणो एव्वं उम्मादिदो । [जानामि जानामि । अयमपि जन एवमुन्मादितः ।]
चेटी—भट्टिदारिए ! जदि सो राआ विरूवो भवे । [भर्तृदारिके ! यदि स राजा विरूपो भवेत् ।]
वासवदत्ता—णहि णहि । दंसणीओ एव्व । [न हि न हि । दर्शनीय एव ।]
पद्मावती—अय्ये ! कहं तुवं जाणासि । [आर्ये ! कथं त्वं जानासि ।]
वासवदत्ता—(आत्मगतम्) अय्यउत्तपक्खवादेण अदिक्कन्दो समुदाआरो । किं दाणिं करिस्सं । होदु, दिट्ठं । (प्रकाशम्) हला ! एव्वं उज्जइणीओ जणो मन्तेदि । [आर्यपुत्रपक्षपातेनातिक्रान्तः समुदाचारः । किमिदानीं करिष्यामि । भवतु, दृष्टम् । (प्रकाशम्) हला ! एवमुज्जयिनीयो जनो मन्त्रयते ।]
पद्मावती—जुज्जइ । ण खु एसो उज्जइणीदुल्लहो । सव्वजणमणोभिरामं खु सोभग्गं णाम । [युज्यते । न खल्वेष उज्जयिनीदुर्लभः । सर्वजनमनोभिरामं खलु सौभाग्यं नाम ।]
(ततः प्रविशति धात्री)
धात्री—जेदु भट्टिदारिआ । भट्टिदारिए ! दिण्णासि । [जयतु भर्तृदारिका । भर्तृदारिके ! दत्तासि ।]
वासवदत्ता—अय्ये ! कस्स । [आर्ये ! कस्मै ।]
धात्री—वच्छराअस्स उदअणस्स । [वत्सराजायोदयनाय ।]
वासवदत्ता—अह कुसली सो राआ । [अथ कुशली स राजा ।]
धात्री—कुसली सो आअदो । तस्स भट्टिदारिआ पडिच्छिदा अ । [कुशली स आगतः । तस्य भर्तृदारिका प्रतीप्सिता च ।]
वासवदत्ता—अच्चाहिदं । [अत्याहितम् ।]
धात्री—किं एत्थ अच्चाहिदं । [किमत्रात्याहितम् ।]
वासवदत्ता—ण हु किञ्चि । तह णाम सन्तप्पिअ उदासीणो होदि त्ति । [न खलु किञ्चित् । तथा नाम सन्तप्योदासीनो भवतीति ।]
धात्री—अय्ये ! आअमप्पहाणाणि सुलहपय्यवत्थाणाणि महापुरुसहिअआणि होन्ति । [आर्ये ! आगमप्रधानानि सुलभपर्यवस्थानानि महापुरुषहृदयानि भवन्ति ।]
वासवदत्ता—अय्ये ! सअं एव्व तेण वरिदा । [आर्ये ! स्वयमेव तेन वरिता ।]
धात्री—णहि णहि । अण्णप्पओअणेण इह आअदस्स अभिजणविञ्ञाणवओरूवं पेक्खिअ सअं एव्व महाराएण दिण्णा । [न हि न हि । अन्यप्रयोजनेनेहागतस्याभिजनविज्ञानवयोरूपं प्रेक्ष्य स्वयमेव महाराजेन दत्ता ।]
वासवदत्ता—(आत्मगतम्) एव्वं । अणवरद्धो दाणिं एत्थ अय्यउत्तो । [एवम् । अनपराद्ध इदानीमत्रार्यपुत्रः ।]
(प्रविश्यापरा)
चेटी—तुवरदु तुवरदु दाव अय्या । अज्ज एव्व किल सोभणं णक्खत्तं । अज्ज एव्व कोदुअमङ्गलं कादव्वं त्ति अह्माणं भट्टिणी भणादि । [त्वरतां त्वरतां तावदार्या । अद्यैव किल शोभनं नक्षत्रम् । अद्यैव कौतुकमङ्गलं कर्तव्यमित्यस्माकं भर्त्री भणति ।]
वासवदत्ता—(आत्मगतम्) जह जह तुवरदि, तह तह अन्धीकरेदि मे हिअअं । [यथा यथा त्वरते, तथा तथान्धीकरोति मे हृदयम् ।]
धात्री—एदु एदु भट्टिदारिआ । [एत्वेतु भर्तृदारिका ।]
(निष्क्रान्ताः सर्वे)
॥ इति द्वितीयोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.