॥ अथ तृतीयोऽङ्कः ॥
(ततः प्रविशति विचिन्तयन्ती वासवदत्ता)
वासवदत्ता—विवाहामोदसङ्कुले अन्तेउरचउस्साले परित्तजिअ पदुमावदिं इह आअदह्मि पमदवणं । जाव दाणिं भाअधेअणिव्वुत्तं दुक्खं विणोदेमि । (परिक्रम्य) अहो अच्चाहिदं । अय्यउत्तो वि णाम परकेरओ संवुत्तो । जाव उवविसामि । (उपविश्य) धञ्ञा खु चक्कवाअवहू, जा अण्णोण्णविरहिदा ण जीवइ । ण खु अहं पाणाणि परित्तजामि । अय्यउत्तं पेक्खामि त्ति एदिणा मणोरहेण जीवामि मन्दभाआ । [विवाहामोदसङ्कुलेऽन्तःपुरचतुःशाले परित्यज्य पद्मावतीमिहागतास्मि प्रमदवनम् । यावदिदानीं भागधेयनिर्वृत्तं दुःखं विनोदयामि । अहो अत्याहितम् । आर्यपुत्रोऽपि नाम परकीयः संवृत्तः । यावदुपविशामि । धन्या खलु चक्रवाकवधूः यान्योन्यविरहिता न जीवति । न खल्वहं प्राणान् परित्यजामि । आर्यपुत्रं प्रेक्ष इत्यनेन मनोरथेन जीवामि मन्दभागा ।]
(ततः प्रविशति पुष्पाणि गृहीत्वा चेटी)
चेटी—कहिं णु खु गदा अय्या आवन्तिआ । (परिक्रम्यावलोक्य) अम्मो इअं चिन्तासुञ्ञहिअआ णीहारपडिहदचन्दलेहा विअ अमण्डिदभद्दअं वेसं धारअन्दी पिअङ्गुसिलापट्टए उवविट्ठा । जाव उवसप्पामि । (उपसृत्य) अय्ये ! आवन्तिए ! को कालो, तुमं अण्णेसामि । [कुत्र नु खलु गता आर्यावन्तिका । अम्मो इयं चिन्ताशून्यहृदया नीहारप्रतिहतचन्द्रलेखेवामण्डितभद्रकं वेषं धारयन्ती प्रियङ्गुशिलापट्टके उपविष्टा । यावदुपसर्पामि । आर्ये ! आवन्तिके ! कः कालः, त्वामन्विष्यामि ।]
वासवदत्ता—किण्णिमित्तं । [किं निमित्तम् ।]
चेटी—अह्माअं भट्टिणी भणादि 'महाकुलप्पसूदा सिणिद्धा णिउणा' त्ति । इमं दाव कोदुअमालिअं गुह्मदु अय्या । [अस्माकं भर्त्री भणति 'महाकुलप्रसूता स्निग्धा निपुणा' इति । इमां तावत् कौतुकमालिकां गुम्फत्वार्या ।]
वासवदत्ता—अह कस्स किल गुह्मिदव्वं । [अथ कस्मै किल गुम्फितव्यम् ।]
चेटी—अह्माअं भट्टिदारिआए । [अस्माकं भर्तृदारिकायै ।]
वासवदत्ता—(आत्मगतम्) एदं पि मए कत्तव्वं आसी । अहो अकरुणा खु इस्सरा । [एतदपि मया कर्तव्यमासीत् । अहो अकरुणाः खल्वीश्वराः ।]
चेटी—अय्ये ! मा दाणिं अञ्ञं चिन्तिअ । एसो जामादुओ मणिभूमीए ह्णाअदि । सिग्घं दाव गुह्मदु अय्या । [आर्ये ! मेदानीमन्यच्चिन्तयित्वा । एष जामातृको मणिभूमौ स्नायति । शीघ्रं तावद् गुम्फत्वार्या ।]
वासवदत्ता—(आत्मगतम्) ण सक्कुणोमि अण्णं चिन्तेदुं । (प्रकाशम्) हला ! किं दिट्ठो जामादुओ । [न शक्नोम्यन्यच्चिन्तयितुम् । (प्रकाशम्) हला ! किं दृष्टो जामातृकः ।]
चेटी—आम, दिट्ठो भट्टिदारिआए सिणेहेण अह्माअं कोदूहलेण अ । [आम्, दृष्टो भर्तृदारिकायाः स्नेहेनास्माकं कौतूहलेन च ।]
वासवदत्ता—कीदिसो जामादुओ । [कीदृशो जामातृकः ।]
चेटी—अय्ये ! भणामि दाव, ण ईरिसो दिट्ठपुव्वो । [आर्ये ! भणामि तावत्, नेदृशो दृष्टपूर्वः ।]
वासवदत्ता—हला ! भणाहि भणाहि, किं दंसणीओ । [हला ! भण भण, किं दर्शनीयः ।]
चेटी—सक्कं भणिदुं सरचावहीणो कामदेवो त्ति । [शक्यं भणितुं शरचापहीनः कामदेव इति ।]
वासवदत्ता—होदु एत्तअं । [भवत्वेतावत् ।]
चेटी—किण्णिमित्तं वारेसि । [किं निमित्तं वारयसि ।]
वासवदत्ता—अजुत्तं परपुरुससङ्कित्तणं सोदुं । [अयुक्तं परपुरुषसङ्कीर्तनं श्रोतुम् ।]
चेटी—तेण हि गुह्मदु अय्या सिग्घं । [तेन हि गुम्फत्वार्या शीघ्रम् ।]
वासवदत्ता—इअं गुह्मामि । आणेहि दाव । [इयं गुम्फामि । आनय तावत् ।]
चेटी—गह्णदु अय्या । [गृह्णात्वार्या ।]
वासवदत्ता—(वर्जयित्वा विलोक्य) इमं दाव ओसहं किं णाम । [(वर्जयित्वा विलोक्य) इदं तावदौषधं किं नाम ।]
चेटी—अविहवाकरणं णाम । [अविधवाकरणं नाम ।]
वासवदत्ता—(आत्मगतम्) इदं बहुसो गुह्मिदव्वं मम अ पदुमावदीए अ । (प्रकाशम्) इमं दाव ओसहं किं णाम । [इदं बहुशो गुम्फितव्यं मम च पद्मावत्याश्च । (प्रकाशम्) इदं तावदौषधं किं नाम ।]
चेटी—सवत्तिमद्दणं णाम । [सपत्नीमर्दनं नाम ।]
वासवदत्ता—इदं ण गुह्मिदव्वं । [इदं न गुम्फितव्यम् ।]
चेटी—कीस । [कस्मात् ।]
वासवदत्ता—उवरदा तस्स भय्या, तं णिप्पओअणं त्ति । [उपरता तस्य भार्या, तन्निष्प्रयोजनमिति ।]
(प्रविश्यापरा)
चेटी—तुवरदु तुवरदु अय्या । एसो जामादुओ अविहवाहि अब्भन्तरचउस्सालं पवेसीअदि । [त्वरतां त्वरतामार्या । एष जामातृकोऽविधवाभिरभ्यन्तरचतुःशालं प्रवेश्यते ।]
वासवदत्ता—अइ ! वदामि, गह्ण एदं । [अयि ! वदामि, गृहाणैतत् ।]
चेटी—सोहणं । अय्ये ! गच्छामि दाव अहं । [शोभनम् । आर्ये ! गच्छामि तावदहम् ।]
(उभे निष्क्रान्ते)
वासवदत्ता—गदा एसा । अहो अच्चाहिदं । अय्यउत्तो वि णाम परकेरओ संवुत्तो । अविदा सय्याए मम दुक्खं विणोदेमि, जदि णिद्दं लभामि । [गतैषा । अहो अत्याहितम् । आर्यपुत्रोऽपि नाम परकीयः संवृत्तः । अपि तावच्छय्यायां मम दुःखं विनोदयामि, यदि निद्रां लभे ।]
(निष्क्रान्ता)
॥ इति तृतीयोऽङ्कः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.