Loading data... On slow networks this could take a few minutes.
100%
॥ अथ धर्मश्रृङ्गारप्रकाशः ॥
अथ
श्रृङ्गारप्रकाशे अष्टादशः प्रकाशः
धर्मश्रृङ्गारप्रकाशः
धर्मश्रृङ्गारः, अर्थश्रृङ्गारः, कामश्रृङ्गारः, मोक्षश्रृङ्गारः इति यदुक्तं१, तदिदानीं व्याख्यायते। तत्र —
(धर्मः)
धर्मो नाम श्रुतिस्मृतिविहितः आचारः प्रवृत्तिनिवृत्तिनियमनरूपः।
(१. प्रवृत्तिरूपः —१०)
प्रवृत्तिरूपो दशधा, वाङ्‍मनःकायक्रियाभेदात्। तत्र—
वा(चा)......हितं, प्रियं,.....(सत्य)माप्‍तं च ब्रूते।
मनसा च आस्तिक्यं, दयाम्, अनीप्सां च भावयति।
कायेन गुरुदेवतोपास्तिं, दानं, आर्तत्राणं च करोति। तत्र
(वाचा)
१. हितं यथा—
यदि सर्वस्य सर्वत्र नोपकाराय जायते।
तदनेन सुगुप्‍तेन जिह्वामांसेन को गुणः?॥ १॥
२. प्रियं यथा—(मवीच. ४.३५)
वीरेण ते विजयमाङ्गलिकेन पत्या वृत्रद्रुहः प्रशमितेषु महाभयेषु।
क्षत्रप्रकाण्डगृहिणीबहुमानपूजामूर्जस्वलां त्वयि शची मनसा करोतु॥ २॥
३. सत्यं यथा—(उराच. ५.२२)
एष सांग्रामिको न्याय एष धर्मः सनातनः।
इयं हि रघुसिंहानां वीरचारित्रपद्धतिः॥ ३॥
४. आप्‍तं यथा—(शाकु. ७.३२)
शापादसि प्रतिहता स्मृतिकोपरूक्षे भर्तर्यपेततमसि प्रभुता तवैव।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा॥ ४॥
१. त्रयोदशप्रकाशारम्भे ७९४ पृष्ठे
(मनसा)
५. आस्तिक्यं यथा—
किं बीजं श्रेयसां? धर्मः; सतां किं भूषणं? यशः।
लक्ष्म्याः को बन्धुरुत्साहः; सिद्धेः किं साधनं? नयः॥ ५॥
६. दया यथा—(नागा. ४.१०)
आर्तं कण्ठगतप्राणं परित्यक्तं स्वबान्धवैः।
त्राये नैनं यदि ततः कः शरीरेण मे गुणः?॥ ६॥
७. परस्वानीप्‍सा यथा—(शाकु. ६.२६)
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना।
स स पापादृते तासां दुष्यन्त इति घुष्यताम्॥ ७॥
८.(कायेन गुरुदेवतोपासना यथा)
नन्दिग्रामे जटां बिभ्रदभिषिचार्यपादुके।
पृथिवीं पालयिष्यामि यावदार्यो निवर्तते॥ ८॥
(मवीच. ४.५४)
(महती त्रुटिरत्र) . . . . .।
. . . . . . . . . . . .॥
. . . . . . . . . . . .॥
सन्दिग्धेऽपि परे लोके त्याज्यमेवाशुभं बुधैः॥ ९॥
(२. निवृत्तिरूपः —५)
१. नृशंसतानिवृत्तिः यथा—
का नीतिरतिसन्धानं; को धर्मः ? प्राणिनां वधः।
यदि क्षत्रियधर्मोऽयम्? अधर्मो वद कीदृशः?॥ १०॥
२. परस्वाभिध्यानिवृत्तिः यथा—(रघु. १६.८)
का त्वं शुभे! कस्य परिग्रहो वा? किं वा मदभ्यागमकारणं ते?।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥ ११॥
॥ इति धर्मश्रृङ्गारप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.