॥ अथ अर्थशृङ्गारप्रकाशः ॥
अथ
शृङ्गारप्रकाशे एकोनविंशः प्रकाशः
अर्थशृङ्गारप्रकाशः
(अर्थः)
अर्थो नाम आत्मनः सुखसाधनानां कलत्रमित्रादीनामर्जनम्।
स त्रेधा नवः, भूतपूर्वः, पित्र्यश्च। तत्र—
(१) स्ववीर्यार्जितो नवः;
(२) प्रनष्टानीतो भूतपूर्वः;
(३) कुलक्रमागतः पित्र्यः।
(१. नवः —१०)
तत्राद्यो दशधा— 'विद्या, भूमिः, पशवः, धान्यं, हिरण्यं, भाण्डम्, उपस्करः, कलत्रं, पुत्रः, मित्रमि'ति।
शेषौ तु कलत्रपुत्रवर्जमष्टधा। तत्र—
विद्या— 'आन्वीक्षिक्यादयः। भूमिः — कृष्या चाकृष्या च। पशवो— हस्त्यश्‍वगोमहिषादयः। धान्यं 'शमीधान्यं, शूकधान्यं' च। हिरण्यं — सुवर्णरजतादि। भाण्डं — रत्‍नाजिनवस्त्र—कस्तूरिकादि। उपस्करो — गृहोपवनशयनासनादिः। कलत्रं— रत्यर्थमपत्यार्थं च......। पुत्राः औरसादयः। मित्रं सहजादिः। तेषु—
१. विद्या यथा—(सूमु. ६)
दत्तं समस्तमपि तिष्ठति यत् तथैव ज्ञातिर्न यद‍् विभजते, ह्रियते न चोरैः।
जन्मान्तरेऽपि यदुपैति, यदत्र पूज्यं विद्याधनं यदि तदस्ति, धनैः किमन्यैः?॥ १॥
२. भूमिर्यथा—
माषैर्मांसलितां तिलैस्तिलकितामुद्ध‍ूसरां धूसरैः वल्लैर्वल्लिमतीममीलदवटां वाटैर्वृतां व्रीहिभिः।
कार्पासोद‍्धुषितामुदारकवनोदारां कुलुत्थाकुला— मस्तोपद्रवकोद्रवामिह महीं दृष्ट्‍वा जनो नन्दति॥ २॥
३. पशुप्रशंसा यथा—
भयेषु दुर्गाणि, जलेषु सेतवो, गृहाणि मार्गेषु, रणेषु राक्षसाः।
मनःप्रसादेषु विनोदहेतवो गजा इवान्यत् किमिहास्ति वाहनम्?॥ ३॥
यथा वा—
वस्तुं (वप्‍तुं?) प्रोत्सहमानपामरकरक्षिप्‍तेक्षुकाण्डैः सह द्वेधाकृत्य नितम्ब! (पावनव)नक्षेत्रं विशन्त्यां हलौ।
हेलोदस्तहलीषमीषदलसं रोमन्थमभ्यस्यतो धन्या धूर्धुरपुङ्गवस्य वहतः पश्‍यन्ति लीलायितम्॥ ४॥
४. धान्यप्रशंसा यथा—
दुर्लभा यस्य निष्पत्तिर्व्ययो यस्य दिनेदिने।
धर्मकामार्थमूलस्य धान्यस्य कुशलं गृहे॥ ५॥
५. हिरण्यप्रशंसा यथा—
बुभुक्षितैर्व्याकरणं न भुज्यते पिपासितैः काव्यरसो न पीयते।
न विद्यया केनचिदुद्‍धृतं कुलं हिरण्यमेवार्जय निष्फलाः कलाः॥ ६॥
६. भाण्डप्रशंसा यथा—(माघ. ३.७६)
विक्रीय दिश्‍यानि धनान्युरूणि द्वैप्यानसावुत्तमलाभभाजः।
तरीषु तत्रत्यमफल्गु भाण्डं सांयात्रिकानावपतोऽभ्यनन्दन्॥ ७॥
७. उपस्करणप्रशंसा यथा—
गृहेण शयनीयेन भोजनेन जनेन च।
चतुर्भिरेव जानीयान्नरो जीवति वा न वा॥ ८॥
८. कलत्रप्रशंसा यथा—(सूमु. १)
प्रोषितायां व्रजन्त्यस्तं प्रजा धर्मो यशः सुखम्।
निवर्तन्ते निवृत्तायामहो बन्धुः कुलाङ्गना॥ ९॥
९. पुत्रप्रशंसा यथा—
न वाससां न रामाणां नवा स्पर्शस्तथा सुखम्।
शिशोरालिङ्ग्यमानस्य स्पर्शः सूनोर्यथासुखम्॥ १०॥
१०. मित्रप्रशंसा यथा—(किराता. १३.५२)
लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्षभूतयः।
स्वन्तमन्तविरसा जडीयतां मित्रलाभमनु लाभसंपदः॥ ११॥
त(स्यार्थ)स्यार्जनमलब्धलाभः; यथा— लब्धपरिरक्षणं, रक्षितविवर्धनं, रक्षितोपयोगश्च। तत्रोपयोग्यो दशधा— देश—काल—शक्ति—साधन—कार्यानर्थप्रतिघात— वैरनिवृत्ति—वृत्ति—मान—ख्याति—निमित्तः। तत्र—
देशनिमित्तः ऐहिक आमुष्मिकश्च।
कालनिमित्तः (तदा—)त्वार्थ आयत्यर्थश्च।
शक्तिनिमित्तः शक्तित्रयोपचयार्थः।
॥ इति अर्थशृङ्गारप्रकाशः ॥
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.